________________
सचित्वादिः वायु:
पूर्ववद्वायुकायामिलापेन व्याख्येया॥१८॥ वायौ व्यवहारनिश्चयमतं दर्शयतिसवलय घणतणुवाया अइहिम अइदुहिणे य निच्छयओ। ववहार पाइणाई अकंताई य अच्चित्तो॥३९॥
सह वलयैर्वर्तन्ते इति सवलया नरकस्थापनवातास्तनुवाताः, तथा अतिहिमे निपतति, अतिदुर्दिने मेघान्धकारे च | यो वायुः सर्वोऽपि निश्चयतः सचित्तः, प्राचीनादिः-पूर्वादिदिग्वातो व्यवहारतः सचित्तः, तथा आक्रान्तादिको वक्ष्यमाणपञ्च. प्रकारोऽचित्त इति ॥ ३९ ॥ आक्रान्तादिस्वरूपमाहअकंतधंतघाणे देहाणुगए य पीलियाइसु या अच्चित्त वाउकाओ भणिओ कम्मट्रमहणेहिं॥४०॥
कईमे स्वपादेनाक्रान्ते चिदिति-शब्दं कुर्वन् यो वायुः, यश्चाध्माते मुखवातभृते इत्यादौ यो वा घाणे-तिलपीडनयन्त्रे, यो देहानुगत:-श्वासनिश्वासरूपः, पीलितं-सजलं वस्त्रादि, तेषु यो वात एष सर्वोऽप्यचित्तः, पश्च प्रकारो वातः कष्टिमथनैर्भणितः ॥ ४० ॥ सम्प्रति मिश्रं प्रतिपिपादयिषुः इत्यादिस्थस्याचित्तवायोर्जले स्थितस्य क्षेत्रमाश्रित्य स्थले स्थित. स्य (च) कालमाश्रित्याचित्वादिविभागमाहहत्थसयमेग गंता दइओ अच्चित्तु बीयए मीसो।तइयंमि उ सच्चित्तो वत्थी पुण पोरिसिदिणेसु ॥४१॥ ____ अज्ञापश्वोरन्यतरंशरीरचर्मणा निष्पन्नो दृतिः, स चाचित्तमुखवातभृतो दवरकेण गाढबद्धमुखो नद्यादिजले प्लाव्यमानो यावद्धस्तशतमेकं याति तावत् स वातोऽचित्तो, द्वितीयहस्तशतप्रारम्भ प्रान्तं यावन्मिश्रः, ततस्तृतीयशते सचित्त एव, अथ
Jain Education Inter
For Private & Personel Use Only
Tww.jainelibrary.org