________________
क्षमा रत्नीयावचूर्युपेता
श्री
पिण्डनिर्युक्तिः
॥ ८ ॥
Jain Education Inter
तिविहो तेउक्काओ सच्चित्तो मीसओ य अच्चित्तो। सच्चित्तो पुण दुविहो निच्छयववहारओ चेव ॥३५॥ पूर्ववत् तेजस्कायाभिलापेन व्याख्येया ॥ ३५ ॥ निश्चयव्यवहाराभ्यां द्वैविध्यं दर्शयति
इट्ठगपागाईणं बहुमज्झे विज्जुमाइ निच्छयओ । इंगालाई इयरोत्ति मुम्मुरमाईड मिस्सो उ ॥ ३६ ॥ इष्टका पाकादीनां बहुमध्यभागे विद्युदादि - विद्युदुल्काप्रमुखतेजस्कायो निश्चयतः सचितोऽङ्गारादिरितरो व्यवहारतथ, अथ मिश्रमाह-मुर्मुरादिर्मिश्रव भवति ॥ ३६ ॥ अचित्तमाहओयणवंजणपाणगआया मुसिणोद्गं च कुम्मासा | डगलगसरक्खसूई पिप्पलमाई उउवओगो ॥३७॥
ओदनः - शाल्यादि भक्तं व्यञ्जनं-तीमनादि पानकं काञ्जिकं, तत्रोष्णावश्रावणक्षेपापेक्षयाऽग्निकायता, आयाम - अवश्रावणमुष्णोदकं - त्रिदण्डोल्कालितजलं, एतेषां समाहारद्वन्द्वः, चकारान्मण्ड कादि, कुल्माषाः - पक्का माषाः, एते चौदना - दयोsग्निकात्वेनाग्नयो व्यपदिश्यन्ते, भवति चैवं व्यवहारो, यथा-द्रम्मो भक्षितोऽनेनेति, ओदनादयश्चाचित्तास्ततोऽचित्ताग्निकात्वेन कथिताः, तथा डगलकानि प्रतीतानि, सरजस्को - भस्म सूची- लोहमयी, यथा- रक्षया भस्मना सह सूची सरक्षा - सूची, पिप्पलकः किञ्चिद्वक्रः क्षुरविशेषः, इत्यादिरचित्ताग्निकायो ज्ञेयः, प्रयोजनमाह - एतेषामोदनादीनामुपयोगो भवति भोजनादौ ॥ ३७ ॥ वायुकाय पिण्डमाह
वाउक्काओ तिविहो सच्चित्तो मीसओ य अश्चित्तो। सच्चित्तो पुण दुविहो निच्छ्यववहारओ चेव ॥ ३८ ॥
For Private & Personal Use Only
अचिचोऽग्निः
www.jainelibrary.org