SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ प्रक्षालन गुरुपच्चक्खाणिगिलाणसेहमाईण धोवणं पुवं । तो अप्पणो पुवमहाकडे य इयरे दुवे पच्छा ॥ ३३ ॥ पूर्व गुरूणां, ततः प्रत्याख्यानिनां-क्षपकादीनां तदनन्तरं ग्लानानां, ततः शैक्षा-नवदीक्षिकास्तेषां, तत आत्मनो वस्त्राणि क्रमेण प्रक्षालयेत् गुर्वादीनां>च, वासांसि त्रिधा जायन्ते, तद्यथा-यथाकृतानि अल्पपरिकर्माणि बहुपरिकर्माणि च, यानि यथालब्धान्येव न सीवनादिपरिकर्मयुक्तानि तानि यथा कृतानि, एकवारं द्विधा कृत्वा सीवितान्यल्पपरिकर्माणि, बहुधा खण्डित्वा सीवितानि बहुपरिकर्माणि, तत्रापि धावनक्रममाह-'पुव्व 'त्ति, पूर्व-प्रथमं सर्वेषामपि यथाकतानि वासांसि धावयेत्-प्रक्षालयेत् , पश्चात् क्रमेण इतरे द्वे, किमर्थमिति !, चेदुच्यते-विशुद्धपरिणामवृद्धयर्थ, यथाकृतेषु वस्त्रेषु प्रक्षाल्यमानेषु मनागपि पलिमन्थदोषाभावा[न] संयमबहुमानभाववृद्धिर्जायते ॥ ३३ ॥ प्रक्षालनक्रियामाहअच्छोडपिट्टणासु य न धुवे धोए पयावणं न करे। परिभोग अपरिभोगे छायायव पेह कल्लाणं॥३४॥ अच्छोट्टनपिट्टनाभ्यां वस्त्राणि न प्रक्षालयेत् , तत्राच्छोटनं-रजकैरिवास्फालनं, पिट्टन-कुट्टनं, ताभ्यां धौते-प्रक्षालिते प्रतापन-अग्निपरि न कुर्यात् , कथं वस्त्रशोषण कुर्यादित्याह-परिभोग्यानि अपरिभोग्यानि च वस्त्राणि यथाक्रमं छायाऽऽता. पयोः शोषयेत् , आर्षत्वाद् विभक्तिलोपः, तानि शोषार्थ विसारितानि पेहत्ति-प्रेक्षेत, येन तस्करा नापहरन्ति, धावनिकायां वायुविराधनारूपोऽन्यो वा कोऽप्यसंयमः संभाव्यते, गुरुणा शुद्ध्यर्थ कल्याणसचं प्रायश्चित्तं देयं साधोः ॥३४॥ तेजस्कायपिण्डमाह Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy