SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ब सचिचाचित्तमित्र पृथ्वीस्वरूपम्। वर्जयित्वा शेषभूम्यादिस्थितो व्यवहारसचित्त इति ॥ ११॥ अथ मिश्रमाहखीरदुमहे? पंथे कट्ठोले इंधणे य मीसो उ। पोरिसि एग दुग तिगं बहुइंधणमज्झथोवे य ॥१२॥ क्षीरखुमा-वटाश्वत्थादयस्तेषामधः पृथ्वीकायो मिश्र इति, तत्र वृक्षमाधुर्येण शस्त्रत्वाभावात् कियान् सचिचः शीतादिशस्त्रसम्भवात कियानचित्त इति, पथि ग्रामनगराद्धहिस्तत्रापि गन्त्रीचक्रादिभिरुत्खातः कियान सचित्तः कियानचित्त इति सर्वत्र भावनीयम् , कृष्टो-हलविदारिता, तथा आर्दो-जलमिश्रो, यतो जलं पृथ्वीकायोपरि निपतत् कियन्तं पृथ्वीकार्य शस्त्रत्वेनाचित्तीकरोतीति मिश्र उच्यते, तथा इन्धने गोमयादौ मिश्रस्तथाहि गोमयादिकमिन्धनं सचित्तपृथ्वीकायस्य शस्त्रं, | अत्रेन्धने च कालमानमाह-'पोरिसी 'त्यादि, बहिन्धनमध्यगत एका पौरुषी यावन्मिश्रा, मध्यमेन्धनसंयुक्तस्तु पौरुषीद्विकं, अल्पेन्धनसंपृक्तश्च पौरुषीत्रिकं यावन्मिश्रः पृथ्वीकायः ॥ १२॥ अथाचित्तमाहसीउण्हखारखत्ते अग्गीलोणूसअंबिलनेहे । वुकंतजोणिएणं पयोयणं तेणिमं होइ ॥ १३ ॥ | प्राकृतत्वादत्र सप्तमी तृतीयार्थे ज्ञेया, शीतोष्णक्षारक्षत्रेण-शीतं प्रतीतं, उष्णः-सूर्यादितापः, क्षारः प्रसिद्धः क्षत्रंकरीषविशेषः, एतैस्तथा अग्निः लवणं ऊपः-ऊषरादिक्षेत्रोद्भवलवणिमा, अम्लं-काञ्जिकं, स्नेहा-तैलादिः, एतैश्चाचित्त पृथ्वीकायो भवति, एतेषां शस्त्ररूपत्वात् , तथा सामान्येनापि पृथ्वीकायस्य चतुर्द्धाऽचित्त(ता)भवनं जायते-द्रव्यतः क्षेत्रतः कालतो | भावतच, द्रव्येण शस्त्रभूतेन द्रव्यता, क्षेत्रेण योजनशतातिक्रान्त्या मधुरादिक्षेत्रोत्पन्नस्यान्यक्षेत्रसंक्रान्त्या च शस्त्ररूपेण Jain Education Inter For Private & Personal Use Only anww.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy