________________
क्षमारत्नीयावचूर्युपेता
श्री
पिण्ड
निर्युक्तिः ।
॥ ३ ॥
Jain Education Inter
संश्लेषकरणात् पिण्डत्वेन स्थापना तदा सद्भावे स्थापना, पिण्डाकृतेरुपलभ्यमानत्वात्, त्रयाणां चेति उपलक्षणं, तेन द्वयोरपि बहूनां वा योगे ज्ञातव्यं, तथा चित्रेषु यदै कबिन्द्रालेखनेन पिण्डस्थापना तदाऽसद्भावे, यदा त्वनेक बिन्द्रा लेखनेन प्रभूतद्रव्यात्मका स्थापना तदा सद्भावे । तथा दारुकले प्योपलेषु पिण्डाकृतिसम्पादनेन या पिण्डस्य स्थापना सा (स) इतर:सद्भावस्थापनापिण्डः, तत्र पिण्डाकारस्य दर्शनात् ॥ ७ ॥ द्रव्यपिण्डमाह
तिविहो उ दवपिंडो सच्चित्तो मीसओ अचित्तो य । एक्केक्स्स य एत्तो नव नव भेआ उ पत्तेयं ॥८॥ द्रव्यपिण्डस्त्रिविधः–सचित्तो मिश्रोऽचित्तच, इतो भेदत्रयानन्तरं एकैकस्य भेदस्य नव २ मेदा ज्ञातव्याः || ८ || नव
भेदानाह
पुढवी आउक्काओ तेऊ वाऊ वणस्सई चेव । बेइंदिय तेइंदिय चउरो पंचेंदिया चैव ॥ ९ ॥
सुगमा, नवरं पिण्डशब्दः पूर्वगाथातोऽनुवर्तमानोऽत्र प्रत्येकं सम्बध्यते ॥ ९ ॥ प्रत्येकं भेदानाह— पुढवीकाओ तिविहो सच्चित्तो मीसओ य अच्चित्तो। सच्चित्तो पुण दुविहो निच्छयववहारओ चैव ॥१०॥
सुगमा, नवरं निश्वयतो व्यवहारतश्च सचितः पुनर्द्विविधो भवति ॥ १० ॥ निश्वयंव्यवहारस्वरूपमाहनिच्छयओ सच्चितो पुढविमहापद्ययाण बहुमज्झे । अचित्तमीसवज्जो सेसो ववहारसच्चित्तो ॥ ११ ॥ धर्मादिपृथ्वीनां मेर्वादिमहापर्वतानां बहुमध्यभागे निश्चयतः पृथ्वीकाय: सचित्तः स्यात्, अचित्तमिश्रौ वक्ष्यमाणमेदौ
For Private & Personal Use Only
द्रव्यपिण्डप्रकाराः ।
॥ ३॥
www.jainelibrary.org