________________
Jain Education International
तुल्लेवि अभिप्पाए समयपसिद्धं न गिण्हए लोओ। जं पुण लोयपसिद्धं तं सामइया उवचरंति ॥ भा०६ ॥ पदैकदेशे पदसमुदायोपचारात्, अभिप्राये - अभिप्रायकृतत्वे तुल्येऽपि समयप्रसिद्धं नाम लोको न गृह्णाति, न हि कापि समुद्देशशब्देन समयप्रसिद्धेन भोजनादिकं लोको व्यवहरति, यत्पुनर्लोकप्रसिद्धं तत् सामयिका उपचरन्ति ॥ ६ ॥ अथ मूलसूत्र, स्थापनापिण्डं वक्ति
raise वाकट्ठे पुत्थे व चित्तकम्मे वा । सब्भावमसब्भावं ठवणापिंडं वियाणाहि ॥ ७ ॥
अक्षेarch - कपर्दे वाशब्दोऽङ्गुलीयकादिसमुच्चयार्थः, काष्ठे, पुस्ते- ढिउल्लिकादौ, वाशब्दो लेप्यपाषाणसमुच्चये, चित्रकर्म्मणि वा सद्भावमसद्भावं चाश्रित्य स्थापनापिण्डं विजानीहि तत्र सत्तद्भावः सद्भावः, स्थाप्यमानस्येन्द्रादेरनुरूपतया चिह्नादिना यद्दर्शनाद्विद्यमान इवेन्द्रादिर्ज्ञायते स सद्भावः, इतरस्त्वसद्भावः अयं भावः यदा अक्षकपर्दादय एकत्र पिण्डवेन स्थाप्यन्ते, यथा एष पिण्डः स्थापित इति, तदा तत्रापि पिण्डाकारस्योपलभ्यमानत्वात् सद्भावः, या एकस्मिन्नक्षे वराटके वा पिण्डत्वेन स्थापना तदा पिण्डाकारस्यानुपलभ्यमानत्वाद् अक्षादिगतपरमाणूनामविवक्षणात् असद्भाव इत्यादि ॥ ७ ॥ एतदेव भाष्यकृद्गाथयाह
hi अभावे तिण्हं ठवणा उ होइ सब्भावे । चित्तेसु असब्भावे दारुअलेप्पोवले सियरो ॥ भा०७॥ एकोऽक्ष उपलक्षणत्वाद्वराटकादिर्वा पिण्डत्वेन स्थाप्यमाना असद्भावे, यदा त्रयाणामक्षाणां वराटकादीनां वा परस्परं
For Private & Personal Use Only
स्थापनापिण्ड
स्वरूपम् ।
www.jainelibrary.org