________________
रत्नीयावर्युपेता
श्री
उभय| जमुभया
तिरिक्तं पिण्डनाम।
पिण्ड
नियुक्तिः।
॥२॥
न चान्वर्थयुक्ततयेति ॥२॥ उभय दर्शयतिजस्स पुण पिंडवायट्रया पविट्रस्स होइ संपत्ती । गुडओयणपिंडेहिं तं तदुभयपिंडमाइंसु ॥भा०३॥
यस्य पुनः साधोः पिण्डपातार्थतया-आहारलाभेच्छया गृहपतिकुलं प्रविष्टस्य गुडौदनपिण्डयोरुपलक्षणत्वादन्यपिण्डस्य सम्प्राप्तिर्भवति, तदुभयपिण्डं-गुणनिष्पन्नसमयप्रसिद्धपिण्डशब्दवाच्यमुक्तवन्तस्तीर्थकरगणधराः, पिंडेहित्ति, अत्र प्राकतत्वात् षष्ठ्यर्थे तृतीया ॥३॥ उभयातिरिक्तं प्रतिपादयतिउभयाइरित्तमहवा अन्नपि हु अस्थि लोइयं नाम । अत्ताभिप्पायकयं जह सहिगदेवदत्ताई ॥भा०४॥
'अथवे 'ति, प्रकारान्तरे उभयातिरिक्तं-गौणसमय(ज)विभिन्नं, अन्यदपि लोकप्रसिद्धं लौकिकं-आत्माभिप्रायकृतं नाम, अनुभयजं भवतीति, यथा सिंहकदेवदत्तादिनामानि ॥ ४ ॥ ननु नियुक्तिगाथायामनुमयजस्यानुक्तत्वादिह व्याख्यानमनुचितमिति चेन्नैवमपिशब्देन तत्रापि सूचितत्वात्तथा चाह भाष्यकार:गोण्णसमयाइरिचं इणमन्नं वाऽवि सूइयं नाम। जह पिंडउत्ति कीरइ कस्सइ नामं मणूसस्स ॥भा०५॥
इदं पिण्ड इति नाम अन्यद्वा गौणसमयातिरिक्तं, अपिशब्दात् सूचितमस्ति, यथा कस्यापि मनुजस्य पिण्ड इति नाम क्रियते, तच्चान्यद्रव्यसंयोगाभावात् , शरीरावयवयोगाविवक्षणान गौणं नापि समयकृतं, अत उभयातिरिक्तमिति ॥५॥ ननु समयकृतोभयातिरिक्तयोर्न कोऽपि विशेष उभयत्राप्यन्वर्थविकलत्वादात्माभिप्रायकृतत्वादिति चेन्नवैमित्याह
॥२॥
Jain Education Internal
For Private & Personel Use Only
w.jainelibrary.org