________________
| समयकृत
पिण्डनाम।
गुणसमयव्यतिरिक्तमित्यर्थः, अतः स्थापनापिण्डं वक्ति ॥ ६ ॥ भाष्यंगुणनिष्फन्नं गोण्णं तं चेव जहत्थमत्थवी बेति।तं पुण खवणो जलनो तवणो पवनो पईवो य॥भा०१॥
पिण्ड इति वर्णरूपं नाम नामपिण्डः, गुणनिष्पन्न नाम गौणं तदेव च यथार्थमर्थविदो ब्रुवते, दृष्टान्तमाह-गौणं नाम विधा-द्रव्य १ गुण २ क्रिया ३ निमित्तमिति, पिण्ड इति क्रियानिमित्तं, पिण्डनं पिण्ड इति व्युत्पत्तेः, उदाहरणान्यपि क्रियानिमित्तान्येव दर्शयति, तं पुणोत्ति, तत्पुनः गौणं नाम क्षपण इत्यादि, यथा क्षपयति कर्माणीति क्षपका, ज्वलतीति ज्वलनः, तपतीति तपनः, पुनातीति पवनः, प्रदीप्यते इति प्रदीपः, चकारोऽन्यसजातीयदृष्टान्तसमुच्चयार्थः ॥१॥ सामान्यतो गौण नाम व्याख्यातं, सम्प्रति पिण्ड इति नाम गौणं समयकृतं च व्यान्विख्यासुराहपिंडण बहुदवाणं पडिवक्खेणावि जत्थ पिंडक्खा ।सो समयकओ पिंडो जह सुत्तं पिंडपडियाई ॥२॥
बहूनां द्रव्याणां पिण्ड(न)म्-एकत्रमीलनं पिण्ड इति नाम प्रवर्त्तमानं गौणमिति शेषः, समयकृतमेवाह-पूर्वापेक्षयात्र प्रतिपक्षशब्दः संयोगाभाववाची, ततः प्रतिपक्षेणापि द्रव्यसंयोगमन्तरेणापि यत्र पिण्डाख्या भवति, स समयकृतः, पिण्डो नामपिण्ड इति, यथा पिंडवायपडियाएत्ति सूत्रं, अयमभिप्रायः, यथा आचाराङ्गद्वितीयश्रुतस्कन्धे प्रथमे पिण्डैषणाध्ययने सप्तमोद्देशके-“से भिक्खू वा भिक्खुणी वा गाहावइकुलं पिण्डवायपडियाए अणुपविढे समाणे, जं पुण पाणगं पासिज्जा, तंजहा-तिलोदगं वा तुसोदगं वा" इत्यादि, अत्र पानीयमपि पिण्डशब्देनाभिहितं समयभाषया,
Jain Education inte
For Private Personel Use Only
Jvww.jainelibrary.org