________________
परि०१० माणिक्यशेखरीयदीपिकाया अन्त्य . भागः।
हियाहारा मियाहारा० ॥ ६४८॥ हितं द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यतोऽविरुद्धानि द्रव्याणि, भावत एषणीयं, तदाहारयन्ति ये ते हिताहाराः, मितं-प्रमाणोपेतमाहारयन्तीति मिताहाराः, द्वात्रिंशकवलप्रमाणादप्यल्पमल्पतरं वा आहारयन्तीत्यल्पाहाराः, सर्वत्र वा बहुव्रीहिः, हित आहारो येषां ते हिताहारा इत्यादि, एवं विधा ये नरास्तान् वैद्या न चिकित्सन्ति, हितमितादिभोजनेन तेषां रोगस्यैवासम्भवात् , किन्त्वेवं मूलत एव रो xxx
xxx कुर्यात् , तथा द्वौ भागी द्रवस्य-पानीयस्य, षष्ठं तु भागं वायुपविचरणार्थमूनं कुर्यात् ॥ ६५० ॥ इह कालापेक्षया तथा तथाऽऽहारस्य प्रमाणं भवति, कालश्च त्रिधा, तथा चाह
सीओ उसिणो साहारणो० ॥६५१॥ त्रिधा कालो ज्ञातव्यः तद्यथा-शीत उष्णः साधारणश्च, तत्र तेषु कालेषु मध्ये साधारणे काले आहारे-आहारविषया इयं अनन्तरोक्ता मात्रा-प्रमाणम् ।
सीए दवस एगो० ॥ ६५२ ॥ शीते-अतिशयेन शीतकाले द्रवस्य पानीयस्यैको भागा कल्पनीयः, चत्वारः भक्ते-भक्तस्य, मध्यमे शीतकाले द्वौ भागौ पानीयस्य कल्पनीयौ त्रयो भागा भक्तस्य, वाशब्दो मध्यमशीतकालसंपूचनार्थः, तथा उष्णे-मध्यमोष्ण काले द्वौ भागो द्रवस्य-पानीयस्य कल्पनीयौ, शेषास्तु त्रयो भागा भक्तस्य, अत्युष्णे च काले त्रयो भागा द्रवस्य शेषौ द्वौ भागौ भक्तस्य, वा शब्दोऽत्रात्युष्णकालसंसूचनार्थः, सर्वत्र षष्ठो भागो वायुप्रविचारणार्थ मुक्तलो मोक्तव्यः ॥ ६५२ ॥ सम्प्रति भागानां x xxx x .xxx प्रमाणद्वारं, अथ साङ्गारसधूमद्वारमाहतं होइ सइंगालं० ॥ ६५५ ।। तद्भवति भोजनं साकारं यत्तद्गतविशिष्टगन्धरसास्वादवशतो जाततद्विषयमूर्छः सन्नहो मिष्टं ।
Jain Education meaniosa
For Private & Personel Use Only
www.jainelibrary.org