________________
4404
परि०९ वीरगणि
क्षमारत्नीया. वचूर्युपेता
श्रीपिण्डनियुक्तिः
टीकाया अन्त्य
उक्कमनारधूमाख्यं द्वारद्वयमथ कारणद्वारमभिघित्सुः (आह)
छहि कारणेहिं साहू० ॥ ६६१ ॥ व्याख्या-घड्भिः प्रतीतैः कारणैः-प्रयोजनैः साधुः-यतिराहारयन्नपि भुंजानोऽप्यना- हारयन्नेवेत्यप्यर्थः, आचरति-करोति धर्म-पुण्यं, तथा षड्भिश्चैव-षसख्यैरेव कारणे-निमितैः, निव्यूहयन्नपि प्रकृतमाहारं त्यजन्नपि न केवलमाहारयन्नित्यप्यर्थः, आचरति-धर्म करोतीति गाथार्थः ।। ६६१ ॥ तत्राद्यानि कारणान्याह
वेयणवेयावच्चे०॥ ६६२ ॥ व्याख्या-वेयणत्ति सूचनाद्वेदनोपशमनार्थ-पीडापगमाय, तथा वेयावच्चेत्ति विभक्तिव्यत्ययाद्वैयावृत्त्यकरणाय आचार्यादिषु भक्तदानार्थ, तथा इरियट्ठाएत्ति सूचनादीर्याशोधनार्थ ईर्यासमितिपालनाय, चः समुच्चये, तथा संवमार्थ प्रत्युपेक्षणादिनिमित्तं, तथेति वाक्योपक्षेपे, प्राणप्रत्ययाय-जीवनायेत्यर्थः, इति पञ्चकारणानि, षष्ठं प्रतीतं कारणं पुनः धर्मचिन्तायै-श्रुतचारित्रधर्मपर्यालोचनार्थ भुञ्जीतेति सर्वत्र शेष इति गाथार्थः ॥ ६६२ ॥ एनामेव गाथां गाथाद्वयेन विवरितुमाह
नत्थि छुहाए सारिसा० ॥ ६६३ ।। इरिअं नऽवि सोहेई० ॥ ६६४ ॥ व्याख्या-न-नैव, अस्ति-विद्यते क्षुधा-बुभुक्षा सहशा-तुल्या, अपरेति सामर्थ्यगम्यं, वेयणत्ति वेदना-पीडा यत इति शेषः, भुञ्जीत-अग्नियात्साधुः, तत्पशमनार्थ-वेदनाविनाशाय, तथा छाओत्ति बुभुक्षितो-भोजनरहितः, वैयावृत्यं-आचार्यादिभक्तदानादि न-नैवाचरति-शक्नोति कर्तु-विधातुं यत इति शेषः, अतोऽनेन कारणेन भुञ्जीत-अभ्यवहरेदिति, तथा ईर्यामीर्यासमित्तिं प्रतीतं, चः समुच्चये, न-नैव शोधयति-पालयति, बुभुक्षितशब्दोऽत्रोत्तरत्र च प्रक्रान्तः किंतु प्रथमांतः षष्ठ्यांतश्च यथासंभवं व्याख्येयं इति, बुभुक्षितः सन् , तथा बुभुक्षितः प्रेक्षादिकं-प्रत्युपेक्षणाप्रमार्जनादिकं, चेति समुच्चये, संयमशब्दात्परतो योज्यः, संयम प्रतीतं कर्तु-विधातुं न तरतीति, पाश्चात्यगाथाया अनुवृत्तिः, तथा
। वाक्योपक्षेपे, धारियहाएति सूचनादीयांशीधनीडापगमाय, तथा वेयावची
॥१५७॥
१५७॥
Jain Education Interior
For Private & Personel Use Only
www.jainelibrary.org