SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ M कालावध्युद्देशेन भवति-जायते, निर्दहति-प्लोषति, तावदिति कालावधिनिर्देशः तावन्निर्दहति यावदर्धदग्धमेव स्यादिति भावः, रागेण : परि०९ सर्वथा दग्धेन्धनसमं चारित्रं करोतीति स गुरु दोषोद्यषणत्व]द्वेषोऽर्धदग्धेन्धनसममिति स लघुरिति गाथार्थः ॥ ६५८ ॥ प्रस्तुतद्वारद्वय वीरगणिनिगमनं सर्वदोषसंग्रहं चाह कृत. रागेण सइंगालं० ।। ६५९ ॥ व्याख्या-रागेण पूर्वोक्तेन सांगारं-अङ्गारदोषदुष्टं भोजनमिति प्रक्रमः, तदेवं द्वेषेण पूर्वोक्तेन टीकाया सधूमकं- धूमदोषयुक्त वियाणीहि-बुद्ध्यस्व, तदेवं षट्चत्वारिंशदिति संख्या दोषाः-आधाकर्मादिदूषणानि बोद्धव्याः-ज्ञातव्याः अन्त्यभाजनविधौ-अभ्यवहार करणे, तत्र अध्यवपूरकस्य किश्चित्साम्यात् मिश्रान्तर्भावेन पंचदशोद्गमस्य षोडशोत्पादनाया दशषणायाश्चत्वारो भागः। मंडलीदोषाः पूर्वोक्ताः पंचमस्तु कारणाख्यो वक्ष्यमाणः. ननु किमयं पृथगुक्तः !, इति, उच्यते पूर्वोक्तदोषैः शुद्धोऽप्याहारो नैतद्विना भोक्तव्यं इत्यस्य प्राधानाख्यापनार्थमिति गाथार्थः ॥ ६५९ ॥ कीदृशं किं निमित्तं चाहारं साधवो भुञ्जन्त ! इत्याशंक्याह आहारंति तवस्सी० ॥ ६६० ॥ व्याख्या-बाहारयन्ति-भुञ्जन्ति तपस्विनः-साधवो विगतः अक्रियमाणत्वाष्टो यस्मात्त-IN व्यङ्गार, चः समुच्चये, एवं विगतधूम, चः समुच्चये, तदपि ध्यान-धर्मध्यानादि, अध्ययनं-आचारादिपाठस्तन्निमित्तं-तत्पयोजनं एतद्द्वयं वक्ष्यमाणानां षण्णां वेदनोपशमादीनां मध्यात्षष्ठे धर्मचिन्तारूपे भेदे अवतरति, इह चास्य पृथग्भणनं धर्मचिन्ताया मध्ये प्राधान्यख्यापनार्थ, एषो अनन्तरोक्तो उपदेशः-आज्ञापनं प्रवचनस्य-आगमस्य स्यादिति शेषः, अशेषेषूद्मादिदोषेषु जगत्त्रयकदर्थको रागद्वेषरूपी गुरुतमाविति ख्यापनाय क्रमभणनं, व्यक्तौ तौ दोषौ सदृशावुक्ताविति गाथार्थः ।। ६६० ॥ इति वीरगणिविरचितायां शिष्यहितायां पिंडनियुक्तिवृत्तावङ्गारधूमाख्यं षष्ठसप्तमं द्वारद्वयं समाप्तमिति ॥ २ ॥ Jain EducationX .. For Private & Personel Use Only www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy