SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ क्षमा रत्नीयावचूर्युपेता श्री पिण्ड निर्युक्तिः । ॥१५६॥ Jain Education Inter 19 गृहनिति गाथार्थः ॥ ६५५ ।। द्रव्याङ्गारधूमयोः स्वरूपमाह - अंगारतमपत्तं० ।। ६५६ ।। व्याख्या - अङ्गारत्वं- द्रव्याङ्गारभावं अप्राप्तं भगतं सन् ज्वलन् - दाइक्रियामनुभवन् इन्धन - कटादि सधूमं तु सधूममेव प्रोच्यत इत्यत्रापि योग:, तथा अंगारइत्यङ्गार एव ध्वनिना प्रोच्यते-भण्यते, तं चियति तदेवेन्धनदग्धं सर्वथा ज्वलितं, तत्स्वरूप विशेषणमाह – गते - सर्वथा ज्वलितत्वेनायाते घूमे द्रव्यधूमे इहाङ्गारसधूमयोर्व्यत्ययेन व्यवधानमुत्पत्तिक्रमांगीकरणाज्ज्ञेयं पूर्वं हि काष्ठादिदख मानमर्धदग्घेषूष्णस्वभावं सधूमं स्यात्ततः सर्वथाज्वलनरूपामङ्गारतां भजतीति गाथार्थः ॥ ६५७ ॥ अथ राग सामर्थ्य माह रागग्गिसंप्रलित्तो० ।। ६५७ ।। व्याख्या - रागः पूर्वोक्तः, स एव चारित्रे (प० ११०) धनदाहकत्वादग्निः ज्वलनस्तेन सम्यक्सामरस्येन पलितो दीप्स्यौ व्याप्त इत्यर्थः, सः साधुः भुञ्जानो - अभ्यवहरन् प्राशुकमपि निश्चेतनमपि न केवलमप्राशुकमित्यर्थः, उपलक्षणत्वादेषणीयमहः आहारं - अशनादिकं निर्दग्धं सर्वथा काष्ठादिदहना निर्धूमा इत्यर्थः, सांगारः द्रव्याङ्गारस्तैर्निभं सतं, ततः करोति - विधत्ते परिणामवसाच्चारित्रमैव दाहास्वादिन्धनं ज्वलन् तत् क्षिप्रं शीघ्रं यथा हाङ्गारैः काष्टादिकार्यं न सिध्यति तथा तेन चारित्रेण कृतदुःखमोक्षो न शीघ्रं लभ्यत इति गाथार्थः ।। ६५७ ।। द्वेषसामर्थ्यमाह - दोगी जलतो० ॥ ६५८ ॥ व्याख्या - द्वेषः पूर्वोक्तः, स एव चरित्रेन्धनदाहकत्वेनाग्निः - ज्वलनः सोऽपि न केवल रागाग्निर्निर्दग्धाङ्गारनिभं करोतीत्यर्थः, ज्वलन्-दाइक्रियां विदधन् अप्रीतिकं रूक्षोऽयमाहार इत्यादिवचनमुच्चारणं तदेव मलिनकारि - त्वसाम्याद्भूमो द्रव्यधूमस्तेन धूमितं धूमायमानीकृत् चरणं - चारित्रं अङ्गारो- द्रव्याङ्गारः स एव तन्मात्रं - तेन सदृशं तुस्मं तत् यावदिति For Private & Personal Use Only परि० ९ वीराचार्य कृतटीका या अन्त्यभागः । ॥१५६॥ www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy