________________
परि०९ वीरगणि
टीकाया अन्त्यभागः।
बुमुक्षितस्य स्थाम बलं चेति समुच्चये परिहीयते-क्षीयते, तथा बुभुक्षितः गुणऽणुप्पेहासुत्ति नकारलोपाद्गुणनानुप्रेक्षयोः, पूर्वाधीतश्रतस्य परावर्तने-अर्थचिन्तनिकायां च असक्त इति परतो योज्यः, असक्तो-असमर्थः स्यादितिशेषः, यतो मुंजीतेति पाश्चात्यगाथाया सर्वत्रानुवृत्तिरिति गाथाद्वयार्थः॥ ६६३-६६४ ॥ अभोजनकारणानि बिमणिषुस्तत्पस्तावनार्थ षष्ठस्याभोजनकारणस्य विवरणार्थ चाह
अहवाण कुजाहारं ॥६६५॥ व्याख्या-अथवेति भोजनकरणापेक्षया विकल्पार्थः, न-नैव कुर्याद-विदध्यात् आहारभोजनं षडभिः प्रतीतैः स्थानैः-करणरूपैः पदैः, संयतः-साधुः, अथ " सर्वत्राप्यनुद्यानस्य मरणाराधनासारे"ति तस्यां महाप्रयत्नो विधेयः इत्यस्यार्थस्य ख्यापनार्थ वक्ष्यमाणमपि षष्ठमभोजनकारणं व्याख्यानयन्नाह-पश्चात्-शिष्यनिष्पत्तिकरणादेरुपरि, प्रथमं हि शिष्य. निष्पादनादिश्रेयः, पश्चिमकाले-वृद्धत्वे, अन्यदा हि प्रायो बुभुक्षाऽऽधिक्यादिनाऽऽझार( प० २२१ )परिहारो दुष्करः स्यात् , कृत्वाविधाय आत्मानमिति शेषः, अल्पा प्रथममेव संलेखनाकरणेन ज्झोषःस्तोकोत्थानादिरूपा क्षमा शक्तिर्यस्य तं समर्थशरीरो याहारपरित्यागे प्राय आर्तध्यानमुपयाति, तथा क्षम-विशेषतः शमयुक्ततयाऽयोग्यमनुपशान्तो हि संलेखनयाऽपि मृतः सुगतेः साधवो न स्यात् , आहारपरिहारे साधुरिति सामर्थ्यगम्यं, यद्वा पच्छा इति अन्तो योज्यमिति, पश्चिमकाले-संलेखनाप्रस्तावे कृत्वा-विधाय आत्मक्षमांशान्तिविशेषत उपशमे स्थितेत्यर्थः, पश्चात्तु परिहरेदिति पूर्ववदिति श्लोकार्थः ।। ६६५॥ प्रस्तावतोऽन्ये वाऽभोजने कारणन्याह
आयके उबसग्गे० ॥ ६६६ ॥ व्याख्या-आतङ्के-आकस्मिकरोगे न भोक्तव्यमिति सर्वत्र प्रक्रमः, तथोपसर्गे-स्खलनायां, तथा तितिक्षार्थ पालनायेत्यर्थः, कासामित्याह बंभचेरगुत्तीसुत्ति ब्रह्मचर्यगुप्तीनां-मैथुनविरतिरक्षाविशेषाणां, षष्ठ्यर्थे सप्तमी, तथा प्राणिदयाजीवानुकम्पा, तपः पूर्वोक्तं, त एव हेतुं कारणं तं आश्रित्येति शेषः, तथा शरीरव्यवच्छेदनार्थ-देहत्यागाय, चः समुच्चयार्थों लुप्तो
Jain Education Intel
For Private & Personel Use Only
Callwww.jainelibrary.org