________________
क्षमा
रत्नीयान बूर्युपेता
श्री
पिण्डनिर्युक्तिः ।
॥ १४७॥
Jain Education Inter
अभार चुडण पणए० || २५ || व्याख्या - अतिभारो - महागुरुत्वं, चुडनं - जीर्णता शाट इत्यर्थः, पनक उल्ली, अइभारचुडनपनकः, स्यादिति सर्वत्र शेषः, अत्र वस्त्रशब्दः प्रकान्तः, स चार्थवशात्कापि पदे कयापि विभक्त्या दत्तया योज्य, यथा अतिभारथुडनं च वस्त्राणां स्यात्, अधाविततया हि वस्त्राणि समलानि स्युः, स च मलो वर्षाजलशैत्येनाहतोऽतिभारवान् स्यात्, तद्युक्तानि वाण्यप्यतिभारवन्ति स्युरित्यादि, तथा शीतलानां समलत्वेन श्येत्ययुतवस्त्राणां प्रावरणेन शरीराच्छादनेनाजीर्णे - आहारापरिणती ग्लानत्वं - शरीरमाद्यं तस्मिन्सति उहावणचि अपभ्राजना, मूर्खा एते, य अधावितवस्त्रप्रावरणेनाजीर्णत्वेन ग्लानत्वं स्यादित्यपि न जानन्तीत्यादिको जनापवादः स्यात्, तथा कायवधो-मलिनानि तानि प्रावृत्त्य बहिर्गतस्य साधोर्मेघवृष्टौ तत् क्षारेण यथासम्भवं षट्जीवनिकायविराधना स्यात्, समुच्चयार्थश्वकारोऽत्र लुप्तो दृश्यः, वर्षासु वर्षाकाले, अधावने वस्त्राणामप्रक्षालने, दोषा-अनन्तरोक्तदूषणानि स्युरिति शेष इति गाथार्थः ॥ २५ ॥ कदा कियत्प्रमाणं चोपधिं धावतीत्येतमाह
अप्पत्तेच्चिय वासे० ।। २६ ।। व्याख्या - अप्पत्तेच्चियति अप्राप्त एव - अनायात एव वर्षे वर्षाकाले आषाढान्त इत्यर्थः, अनेन " उउबद्धे " त्यादि गाथायां ( गा० २४ ) यच्छीतोष्णकालग्रहणं कृतं तत् किञ्चिन्नूनं ज्ञेयं, सर्व- समस्तं उपधि-उपकरणं घावन्ति साधवः प्रक्षालयन्ति यतनया शक्तयाऽसंयमपरिहारेण, असति त्वभावे, पुनः शब्दो विशेषणे, द्रव्यस्य जलस्य, 'जहन्नओ'चि तुशब्दस्य व्यत्यययोगाज्जघन्यस्त्वपवादे, नाप्यास्तां यदुत्सर्गेण सर्वोऽप्युपधिः घावनीय इत्यपिशब्दार्थः, पात्रनिर्योगः - पात्र कबन्धादिकः, assपरिकरो धावनीय इति प्रक्रमः, इति गाथार्थः ।। २६ ।। आह-किं सर्वेषां वस्त्राण्येकामेव वारां प्रक्षाल्यन्ते किं वास्ति केषाश्चिद्विशेषो !, अस्तीति ब्रूमः केषामित्यत आह
For Private & Personal Use Only
परि० ९ वीराचार्य
कृतटीका
या आद्यभागः ।
॥ १४७॥
www.jainelibrary.org