SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Jain Education I आयरियगिलाणाण० ॥ २७ ॥ व्याख्या -- आचार्याः - सूरयः, उपलक्षणत्वादुपाध्यायप्रमुखग्रहः, ग्लानाः - मन्दास्तेषां तुर्विशेषणे, महला महलचि लिङ्गव्यत्ययान्मलिनानि २ सन्ति वस्त्राणीति व्यक्तं पुनरपि भूयोऽपि न केवलं लोकावर्णा जीर्णलक्षणं पुष्टालम्बनं विना तेषामप्येषामेव [ वारामपोढान्ते ( १ ) ] धावन्तीत्यपि शब्दार्थः, धावन्ति वैयावृत्त्यकरादयः प्रक्षालयन्ति, कारणमाह-माशब्दो निषेघे, भवत्वितिशेषः, हुर्वाक्यालङ्कारे, गुरूणां - आचार्यादीनामवर्णोऽघावने मलिनवस्त्रतया ' अहो अन्यसाधुतुल्या एवैते ' इत्यादि लोकभाषणरूपा अश्लाघा, लोके - पृथग्जने, वेषपरिवारादिसाध्यो हि पृथग्जनः स्यात्, तथा अजीर्ण-वस्त्राणां मलिनत्वेन शैस्याधिक्याद् मुक्तभक्तापरिणतिः, इतरस्मिन् ग्लाने, जातिनिर्देशादेकत्वमिति गाथार्थः ॥ २७ ॥ एवं घावनमाश्रित्योपधेः प्रमाणमुक्तम्, अथ तस्यैव मध्याद्ये उपधिविशेषा न विश्राम्यन्ते तन्नामकथनपूर्वकं घावनविधिमाह पायस्स पडोयारं० || २८ ॥ व्याख्या - पात्रस्य प्रत्यवतारः, तथा दुन्निसिअंति विभक्तिलोपाद् द्वे निषद्ये, तथा त्रिपट्ट - पोतिर जोहरणं, समुच्चयार्थस्तुशब्दोऽत्र योज्यः, एतान् न, 'तु' शब्दो व्याख्यात एव विश्रमयेत् तत्स्थषट्पदिकानां तु यतनया सङ्क्रमणा कार्येति शेषः, ततश्च घावनं प्रक्रान्तानाम् - विश्रामणीयानां कार्यमिति शेषः, इति गाथासमासार्थः ॥ २८ ॥ एनामेव गाथां गाथात्रयेण व्याख्यानयन्नाह - पायस्स पडोयारो० ॥ भा० ८ || संथारुत्तरचोलग० ॥ भा० ९ ॥ एए उन वीसामे० ॥ भा० १० ॥ व्याख्या - पात्रस्यभाजनस्य प्रत्यवतारः - परिकरः, पत्तगजोयति पात्रकवर्जक एव-पतद्रहरहित एव पात्रनियोगः, पात्रकबन्धादिकं षड्विधं भाजनोपकरणं, तथा द्वे-द्विषे निषद्ये, पुना रजोहरणः - उपकरण विशेषरूपः पुनः ज्ञेय इति शेषः, अभितरति अभितरा - मध्यवर्तिनी, तथा For Private & Personal Use Only परि० ९ वीराचार्य कृतटीकाया आद्यभागः । www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy