SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ परि०९ वीराचार्यकृतटीकाया आधभागः। परिसेयपियणहत्थाइ० ॥२३॥ व्याख्या-परिषेकपानहस्तादिधावनमिति, तत्र परिषेको-दुष्टव्रणादेरुत्थितस्योपरि परिषेचनं, पानं-तृडपानादयोऽम्यवहारो, हस्तादिधावनं-करचरणप्रक्षालनं, तथा चीवरधावनं-उपधिप्रक्षालनमित्यर्थः, चैवेति समुच्चये, तथा आचमनं-शौचं, भाजनधावनं-पात्रकप्रक्षालनं तान् २, एवमाइत्ति एवमनन्तरोक्तपरिषेकादिप्रकारं वस्तु आदि-प्रभृतिर्यस्य तदेवमादि, आदिशब्दादाताद्यभिभूतत्वेन तैलाभ्यङ्गितस्य साधोः प्रोञ्छनार्थ काञ्जिकादिग्रहणग्रहः प्रयोजनं उपयोग इति भावः, अचित्ताप्कायेन क्रियत इति प्रक्रमः, (प० ७) बहुधा अनेकधा इति गाथार्थः ॥ २३ ॥ अनन्तरगाथोक्तश्चीवरधावनावयवो विशेषतो व्याख्यायते, तत्र च चीवरधावनमृतुबद्धे काले साधुभिर्न कर्तव्यं, कारणे दोषानाह उउबद्ध धुवण चाउस० ॥ २४ ॥ व्याख्या-उउबद्ध धुवणत्ति विभक्तिलोपाद् ऋतुबद्धे धावने शीतोष्णकाले प्रक्षालने सति को दोष ! इत्याह बाउसत्ति विभक्तिलोपाद बाकुशं-शरीरभूषादिकं, स्यादिति सर्वत्र शेषः, ततः सकाशादोषद्वयमाह ब्रह्मविनाशो-मैथुनविरतिभङ्गो, भूषावान् चिन्तयति किमनया मूषया! यदि योषितो न भुज्यन्ते, स एव वा मनोज्ञतया स्त्रीभिः प्रार्थ्यते, ततस्ताः सेवते, तथा अस्थानस्थापनं-अयोग्यतायां प्रतिष्ठा, नूनमयं कामी, तेनात्मानं भूषयतीत्ययोग्योऽयं धर्मस्येति जनो जल्पतीति भावः, चकारः समुच्चये, तथा सम्पातिमानां-प्रक्षालनजलादिषु पतनेन मक्षिकादीनां वायोश्च-काष्टपाच्यादिषु वस्त्राणामास्फालनेनोत्थितवातस्य वधो-विनाशः, तथा प्लावनेन-वस्त्रधावनजलैः परिक्षिप्यमानैः पृथिव्या रेल्लणेन भूतोपघातः-तदाश्रितकीटिकादिविनाशः, चकारात्साघोः कलाविकाकंडकप्रज्ञो इति ग्रह इति गाथार्थः ॥ २४ ॥ आह-ननु यद्येवं तर्हि न धावितव्यान्येव तानीति ! उच्यते, वर्षाकाले धावितव्यान्येव न धान्यन्ते तोते दोषा स्युस्तथा चाह Jain Education Inter For Private & Personel Use Only Pww.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy