SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ परि०९ वीराचार्यकृतटीकाया आव भागः। पृथ्वीकायस्य कृतं तिष्ठति, तेन तु सोऽचित्त एव भण्यत इति, युक्तौ वाऽपराद्धिकादिप्रयोजनेषु केदारतरिकादिकस्य पृथ्वीकायस्याचित्तस्यैव ग्रहणं विधेयमिति लब्धं, किमचित्तस्य तु ग्रहणं कृतं ! इति उच्यते, उत्सर्गतो यतिना पृथ्वीकायेनोपलक्षितानां षण्णामपि जीवनिकायानामचित्तानामेव ग्रहणं विधेयमिति दर्शनार्थ, तत् प्रयोजनं-कार्य तेन पूर्वोक्तपृथ्वीकायेन इदं वक्षमाणं, चकारः समुच्चये, अन्यदपराधिकाद्यपेक्षयाऽपरं, भवतीति शेषः, अत्राऽपि जातिनिर्देश इति गाथार्थः ॥ १४ ॥ प्रस्तावितमेव प्रयोजनमाह ठाणनिसीयणतुयट्टण ॥ १५॥ व्याख्या-ठाणनिसीयणतुयट्टणत्ति विभक्तिलोपात्स्थाननिषीदनत्वग्वर्त्तनमिति, तत्र स्थान-अवस्थितिनिधीदनं-उपवेशनं, त्वम्वन-स्वापः, तथा उच्चारादीनां-पुरीषमूत्रप्रभृतीनां, चेव उस्सगोत्ति, पदव्यत्ययाद् उत्सर्गःपरित्यागः, चैवेति समुच्चये, क्रियत इति शेषः, अच्चित्तपृथ्वीकाय इति प्रक्रमः, स चात्र स्थण्डिलरूपो ग्राह्यः, तथा घुट्टकडगलगलेपः, गृह्यत इति शेषः, तत्र घुट्टका-लेपितपात्राणां श्लक्ष्णीकारकः पाषाणः, डगलकाः-पुरीपोत्सर्गानन्तरमपानप्रोञ्छनपाषाणखण्डरूपाः, लेपः-भोगपुरपाषाणादिनिष्पन्नं तोम्बकपात्रकाभ्यन्तरग्रहणद्रव्यं, एमाइत्ति चकारलोपादेवमनन्तरोक्तं स्थानादिकं लेपपर्यन्तं वस्त्वादिःप्रभृतिर्यस्य तदेवमादि, आदिशब्दाद्वसत्युपलेपननिमित्तमृत्तिकादिग्रहः, प्रयोजनमचित्तपृथ्वीकायेन क्रियते कार्य बहुधा-अनेकशः, नन्वयं किमिति सचित्तादिभेदतया प्ररूपित इति ! उच्यते, सचित्तमिश्रपरिहारेणाचिकेन येन शिष्याः प्रयोजनं कुर्वन्ति, तर्हि सचिचादिकस्य मध्यात् किश्चिद्भेदद्वयमेव प्ररूप्यतां तृतीयभेदस्तु पारिशेष्यालप्स्यत इति :, उच्यते, शिष्याणामेव सुखावबोधार्थ, पारिशेष्येण हि तस्य मेदस्य सत्कानशेषान् सम्यक् शिष्या अवबुध्यन्ते, अयं पूर्वपक्षः सोत्तरदानोऽप्रेतनेष्वपि पिण्डेषु ज्ञेय इति गाथार्थः ॥ १५ ॥ उक्तः पृथ्वीकायपिण्डोऽथाप्कायपिण्डमाह For Private & Personal Use Only www.jainelibrary.org in Eden inte
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy