________________
बमारत्नीयाबर्युपेता
श्री
परि०९ वीराचार्य कृतटीकाया आबमागः।
पिण्डनियुक्ति।
॥१४५॥
आउकाओ तिविहो० ॥ १६ ॥ व्याख्या-इयं " पुढविकाओ तिविहो" इत्यादि गाथे (गा० १०-११) द्वेऽप्काया- मिलापेन व्याख्येयेति गाथार्थः ॥ १६ ॥ " निच्छयववहारओ चेवे "त्यनेनोदिष्टं नैश्चयिकव्यावहारिकाप्कायमाह
पणउदही घणवलया०॥ १७ ॥ व्याख्या-घणउदही घणवलया इति घनोदयो-नरकपृथ्वीनामाधारभूतानि कठिननीराणि, धनवलयानि-तासामेव पार्श्ववर्तिवृत्ताकारतोयानि, (प०६) पूर्वपदेन समासः, पुलिङ्गता छन्दोत्था, तथा करगत्ति विभक्तिलोपाकरका धनोपलाः, तथा समुद्ददहाणत्ति समुद्रहूदानां-जलधिनदानां बहुमध्ये पूर्वोक्ते शीताचलगनात्, चकारः समुच्चयार्थों लुप्तो दृश्य, अथेति आनन्तर्ये, निश्चयसचित्तः पूर्वोक्तः, अप्काय इति प्रक्रमः स्यादिति शेषः, या व्यवहारनयस्य-लोकानुसारिमतस्याऽभिप्रायेणेति शेषः, अगडाई इति ' तात्स्थातव्यपदेशो'ऽवटादिस्थः कूपवाप्यादिस्थाऽप्कायः, सचित्तः स्यादिति प्रक्रमः इति गाथार्थः ॥ १७ ॥ उक्तः सचित्तोऽप्कायोऽथ तमेव मिश्रमाह
उसिणोदगमणुबत्ते ॥ १८ ॥ व्याख्या-उष्णोदकं-अग्नितापित जलं मिश्रोऽप्कायः, स्यादिति सर्वत्र प्रक्रमः, अणुवत्चे दंडेत्ति जातिनिर्देशादनुढुत्तेषु अजातेषु दण्डेषु त्रिपूत्कालेषु, प्रथमेन दण्डेन कश्चित्परिणमति कश्चिन्नाद्यापीतिमिश्रो, द्वितीयेन प्रभूततरः परिणमति स्तोको नाधापीतिमिश्रः, तृतीयेन तु सर्वोऽप्यचित्त इति भावः, तथा वर्षे-वृष्टिजले, चकारः समुच्चये, स च तन्दुलोदकं चेत्येवं दृश्यः, पतितमात्रे-भूमावायातमात्रे, मात्र इति पतनकालावधारणार्थः, पतनकाल एव हि यावज्जलं गर्तादौ स्थिति न बध्नाति तावत्पतत् सचित्तं किञ्चित्पतितं सत् पृथ्वीक्षारादिना ध्वस्तं पुनरचित्तं स्यादिति, मिलितं मिश्रं स्थितिबन्धे स्वाधारभूतपृथिव्यनुरूपः सचितादिविभागः सम्भाव्यते, तथा मुक्त्वा-परिहृत्य आदेशत्रिकं वक्ष्यमाणं मततत्रितयं, तेनोक्ता मिश्रता न पावेत्यर्थः, चाउलोदगंति
।
॥१४५॥
Jain Education Intema
For Private & Personel Use Only
jainelibrary.org