________________
Jain Education
पथी च मिश्रता सचित्तपृथ्वी कायस्योपरि मेघेन वर्षता स कियान् विराध्यते यावज्जलस्थितिं न बध्नाति तावन्मिश्रस्थितिः बन्धे तु सचित्तः स्यादिति सम्भाव्यते, तथा इन्धने - गोमयादिके, इन्धनं हि निश्चेतनं, पृथ्वीकायः तु सचेतनस्ततश्च कुम्भकारादिनेन्धने स प्रक्षिप्तः संस्तेनेन्धनेन परिणम्यमानो यावन्नाद्यापि सर्वथा परिणमति तावत् चकारः समुच्चये, मिश्रः प्रतीतः स्यादितिशेषः, तुशब्दः समुच्चये, ( प० ५ ) स च पौरुषीत्रिकं त्वित्येवं योज्यः, इन्धनमाश्रित्य कालनियममाह - पोरिसित्ति विभक्तिलोपात् पौरुष प्रहरं एकति अन्ते ह्रस्वत्वं विभक्तिलोपश्च इत्येकां केवलां, तथा दुगंति अत्रोत्तरत्र च पौरुषीत्यनुवृत्तेरनुस्वारलोपाच्च पौरुषीद्विकं प्रतीतं, एवं तिगंति पौरुषीत्रिकं, "कालाध्वनोरत्यन्तसंयोग " इत्यनेन यावच्छब्दाध्याहाराद्वा द्वितीया, एवमुत्तरत्राऽपि कथं मूतः सङ्क्रमः सः १, बहु इंधणचि विभक्तिलोपाद्बहु-प्रचुरमिन्धनं पूर्वोक्तं यत्र सोऽर्थापत्या स्तोकः सचित्तपृथ्वीकायः, एवं मज्झति विभक्तिलोपादत्रोत्तरत्र चेन्धनशब्दानुवृतेम्ब मध्येन्धनः प्रतीतः, एवं थोवेत्ति स्तोकेन्धनः प्रतीतः, तदुपर्यचेतनः स्यात्, चकारः समुच्चय इति गाथार्थः ॥ १२ ॥ उक्तोमिश्रः पृथ्वीकायोऽथाचितमेवाह
सीउण्डखारखित्ते ॥ १३ ॥ व्याख्या - शीतोष्णक्षारक्षत्रेणेत्यर्थः, एवमुत्तरत्रापि, तत्र शीतं प्रतीतं, उष्णं तापः क्षारः तिलक्षारादिः, क्षेत्र करीषविशेषः, तथा अग्गी लोणूस अंबिलेति अग्निलवणोषाम्ल इति, तत्राग्निः विश्वानरो, लवणं प्रतीतं, उषः उखरक्षेत्रोत्पन्नो रनो विशेषः, आम्लं काञ्जिकादि, तथा स्नेहे तैलादौ, अत्र शीतोष्णान्या लक्षारस्नेहाः परकायशस्त्रमित्यादिशस्त्र योजना कार्याः, अनेनान्यान्येऽपि स्वकायपरकायशास्त्राण्युपलक्षितानि, यथा परवर्णस्यापरवपूर्ण इत्यादि, किमित्याह-व्युत्क्रान्तयोनिकेन - गतजीवोत्पत्तिस्थानेन प्रासुकेनेत्यर्थः, st for पृथ्वीका द्रव्यतः क्षेत्रतः कालतो भावतश्चेति चतुर्द्धा प्रासुकः, तत्र शीताद्यैः स्वकायपरका यशस्त्रैर्द्रव्यतः प्रासुक उक्तः, तेन च
For Private & Personal Use Only
परि० ९ वीराचार्य
कृतटीका
याराद्यभागः ।
www.jainelibrary.org