________________
क्षमारत्ननीयावर्युपेता
श्री
| परि०९ वीराचार्य कृतटीकायाराद्यभागः।
पिण्ड
नियुक्ति
॥१४३॥
स्तेजस्कायः-अङ्गारादि, वायुकायः-तनुवातादिनस्पतिकाय आम्रादिः, चैवशब्दः समुच्चये, तथा बेइंदियतेईदियत्ति विभक्तिलोपाद् द्वीन्द्रियत्रीन्द्रियाः शङ्खादयः कीटिकादयश्च, एवं चउरोत्ति, सूचनाच्चतुरिन्द्रियाः भ्रमरादयः, तथा पञ्चेन्द्रिया गवादयः, चैवशब्दः पूर्वत् , नवमा ज्ञेया इतिशेषः, इतिद्वारनवकप्रतिपादकगाथार्थः ।। ९॥ तत्र पृथ्वीकायपिण्डमाह
पुढविकाओ तिविहो० ॥१०॥ व्याख्या-पृथ्वीकायः पूर्वोक्तस्त्रिविधः स्यादिति सर्वत्र शेषः, यथा-सचित्तः, मिश्रकः, चकारः समुच्चये, अचित्तः त्रयोऽपि प्रतीताः, तत्र सचित्तः पुनराद्यः, पुनःशब्दो विशेषणे, द्विविधो-द्विधा, कथम् !, इत्याहनिच्छियत्ति सूचनान्नैश्चयिकः सर्वथा सचित्तः, तथा व्यावहारिकः सम्भाव्यमानचेतनांशः, चैवेति समुच्चय इति गाथार्थः ॥ १० ॥ द्विविधमपि सचित्तपृथ्वीकायमाह
निच्छयओ सच्चित्तो०॥ ११ ॥ व्याख्या-निश्चयतः शीताचलगनादविसंवादितया सचित्तः प्रतीतः, पृथिवीकाय इति प्रक्रमः, स्यादिति सर्वत्र शेषः, पृथिव्यो-धमदियो महापर्वता:-मेर्वादयः, तेषामुपलक्षणत्वाकादिग्रहः, बहुमध्येऽभ्यन्तर्गब्में, अचित्त. मिश्री प्रतीतो, तद्वर्जः-तद्रहितः सः, सेसोति पुनः शब्दलोपाच्छेषः पुनः कूटशैलनिराबाधारण्यप्रभृतिषु स्थितः, पुनः व्यवहारसचित्तो लोकानुसारितयाऽभिप्रायेण सजीव इति गाथार्थः ॥ ११ ॥ उक्तः सचित्तः पृथ्वीकायो, अथ तमेव मिश्रमाह
खीरदुमहे? पन्थे० ॥ १२॥ व्याख्या-खीरदुमहेदृत्ति अन्ते एकारलोपात् क्षीरदुमाधो-बटोदुम्बरादीनां तले, तत्र हि क्षीरमाणां माधुर्यन शस्त्रत्वाभावात्सचितः, शीतादिशस्वभावाचाचित्त इति मिलितो मिश्रः, तथा पथे-मार्गे, तत्र हि गन्त्रिकाचक्रादिभिः सचित्त उत्खन्यते, तन्मध्यात् कियान् शीतादिभिरचित्तीक्रियत इति मिश्रः, तथा कृष्टार्दो हलविदारितः सजलश्च पृथ्वीकायः, तत्र कृष्टे
॥१४॥
For Private & Personal Use Only
dwww.jainelibrary.org
Jain Education in