________________
परि०९ बीराचार्यकृतटीकायाराधमागः।
स्थाप्यन्ते तदा सद्भावस्थापनापिण्ड इति गाथार्थः ॥ ७॥ उक्तः स्थापनापिण्डः, अथ द्रव्यपिण्डस्यावसरः, स च आगमतो नोआगमतश्च द्वेधा, तत्राऽऽगमतः पिण्डशब्दार्थज्ञस्तत्रानुपयुक्तः प्राणी, नोगमतस्तु ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात् त्रिधा, तत्रज्ञशरीरद्रव्यपिण्डः-पिण्डशब्दार्थज्ञस्य प्राणिनो विगतजीवितं शरीरं, भव्यशरीरद्रव्यपिण्डस्तु यः पिण्डशब्दस्यायें साम्प्रतं न जानात्यप्रेतु सम्भाव्यते ज्ञास्यतीति स बालादिर्भण्यते, अथ तद्व्यतिरिक्तं द्रव्यपिण्डमाह
तिविहो उ दवपिंडो॥८॥ व्याख्या-त्रिविधः-त्रिधा तुशब्दः पुनरों भिन्नक्रमश्च, स्यादिति शेषः, द्रव्यपिण्डः व्यणुकस्कन्धादिः, पुनःशब्दो प्रयोज्यः, तत्प्रयोगश्चैवं, यथा-सद्भावाऽसद्भावमेदात् स्थापनापिण्डो द्विविध उक्तः, द्रव्यपिण्डः पुनस्त्रिविध इति, वैविध्यमेवाह-सचित्तोत्ति सचित्तेन-चैतन्येन वर्तत इति सचित्तः, चशब्दस्य द्विरुक्तिच्छन्दोत्थ, सच्चित्तो-विधमान चि यस्य स सचित्तः-सजीवः, तथा मिश्रकः स जीवाजीवरूपः, चकारः समुच्चये, तथा अचित्तोति चकारस्य पूर्ववद्विर्भाव इत्यचित्तो-निर्जीवः, पृथिव्यादिद्रव्यं पूर्व सचित्तस्स्यात्ततः स्वकायशस्लादिमिः प्रासुकी क्रियमाणं कियन्तं कालं मिश्र, ततोऽचित्तमित्ययं क्रमः, तत्र चैककस्य-भिन्नभिन्नमेदस्य, चशब्द:-पुनरर्थो, भिन्नक्रमश्च, एचोति एतेभ्यः पुनः सचिचादिभ्यो मध्यात्, पुनः २ शब्दो विशेषणार्थोऽत्र योजितः, नव नवेति वीप्सायां, सङ्ख्या मेदाः प्रकारो वक्ष्यमाणाः, स्युरिति शेषः, इति मिलिता सप्तविंशति मेदाः, तुशब्दः सचिचादिमेदाविवक्षणेन सामान्यतः पृथ्वीकायादीनां नवानामपि द्विकादिसंयोगैः प्रभूतैरपि जातिनिर्देशादेको मिश्राख्योऽष्टाविंशो मेदोऽस्तीतिकथनार्थः, वक्ष्यति च “ अह मीसउ पिण्डो" इत्यादि, प्रत्येक-पृथक् पृथगिति गाथार्थः ॥ ८॥ भेदानेवाह
पुढवी आउकाओ०॥९॥ व्याख्या-पृथिव्यप्कायः शर्करादिः कूपजलादिश्च, तथा तेऊ वाऊ वणस्सई' इति कायशब्दानुवृत्ते
Jain Education
For Private & Personal Use Only
I www.jainelibrary.org
।