________________
परि०९ | वीराचार्यकृतटीकायाराद्यभागः।
मणादिकाः, गुणः शुक्लादिकाः, क्रिया तपःकरणादि पिण्डतादिरूपा, तत्र प्रक्रान्तपिण्डस्य नामात्रावतरिष्यतीति, प्रधानमेतदितिख्यापनार्थ, सामान्यगौणनामविषयं क्रियानिमित्तं भेदमाश्रित्योदाहरणमाह-तद्गौणं नामा, पुनः शब्दो विशेषणे, विशेषणत्वं च सर्वत्र पूर्ववाक्यार्थाsपेक्षयोत्तरवाक्यार्थो ज्ञेयः, क्षपयतीतिक्षपणः क्षपकर्षिस्तद्वाचकं नामक्षपण इति वर्णावली, अत्र तपःकरणादिरूपा क्रियानिमित्तम् , एवमुत्तरत्रापि भावनीयं, वलतीति ज्वलनो विश्वानरः, तपतीति तपनो रविः, पवत इति पवनो वायुः, प्रदीप्यत इति प्रदीपो दीपकलिका, चकारोऽन्येषां स्वजातीयानां भेदानां समुच्चयार्थः, एतानि तु शृनप्रभृतिकनामानि येष्वेव वलीवादिष्वाधारभूतेषु भणितानि तेष्वेव स्थितानि लब्धनिजनिजसंज्ञानि गौणानि स्युः, अन्वर्थसंज्ञात्वेन दत्तानि स्वास्माभिप्रायकृतत्वेनोभयातिरिक्तानि भवन्ति, एवं समयकृततदुभयकृतान्यपि ज्ञेयानीति गाथार्थः ॥ १ ॥ एवं सामान्येन गौणं नामाभिहितमथ प्रकृतं पिण्डमाश्रित्य गौणं समयकृतं च तदेवाह
पिण्डण बहुदवाण ॥ भा० २॥ व्याख्या-पिण्डणत्ति पिण्डनं-मीलनमनुस्वारलोपः पूर्ववत् , बहुद्रव्याणां त्रिप्रभृतिसेवादिवस्तूनां लड्डुकादि तया सञ्जातानां गौणं पिण्डः, स्यादिति शेषः, प्रभूतानां द्रव्याणां मीलने यत्पिण्ड इति नामैतत् गौणमित्यर्थः, तच्च क्रियानिमित्तं पिण्डन लक्षणक्रियया निष्पन्नत्वात् , तथा प्रतिपक्षणाप्येवंविधद्रव्याणां मीलनव्यतिरेकेणाप्यप्रतिपक्षेण स्यादेवेत्यपि शब्दार्थः, यत्र तिलोदकादौ पिण्डाख्या-पिण्डप्रसिद्धिः स्यादित्यत्रोत्तरत्र च शेषः, स एवंभूतः, समयकृतः-सिद्धान्तविहितः पिण्डः-पिण्डाख्यः पदार्थः स्यात् , तस्य समयकृतत्वं दर्शयन्नाह-यथेत्युदाहरणोपन्यासार्थः, सूत्रम्-आगमम्-वाक्यं, किं तदित्याह 'पिण्डपडियाई (इति)' सूचनात्सूत्रमितिन्यायात् 'पिण्ड ' इत्यनेन पिण्डवाय इति सूत्रखण्डं लब्धं 'पडिय' इत्यनेन तु पडियाए इति द्वयोर्मिलितयोः पिण्डवायपडियाए इति जातम् , अनेन च सूत्रस्य मध्यभागवर्चिना खण्डेन “तुलादण्ड "न्यायेन
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org