________________
क्षमा
रत्ननीया
वर्युपेता
श्री
पिण्ड
निर्युक्तिः ।
॥१३९॥
Jain Education Int
गोण्णं समयकथं वा० ॥ ६ ॥ व्याख्या - गौणं- यथार्थ; नामेति सर्वत्र प्रक्रमः, तथा समयकृतं - सिद्धान्तविहितं वाशब्दः - समुच्चये, तथा यत्किमपि, वाअपिशब्दौ समुच्चयार्थी ताभ्यां भाष्यकारो "गोन्न समयाइरत " ( भा० गा० ६ ) मित्यादिगाथयोभयातिरिक्तं चतुर्थं वक्ष्यति, तद् भवेत् स्यात्, तदुभयेन गौणं समयकृताख्यद्वयेन कृतं विहितं तदुभयकृतमिति भावः, एवं सामान्यतश्चतुर्विधं नामोक्तम्, इह तु नामपिण्डो भणनीयः, स च नाम्नां पिण्डत्वे सति घटते, तानि तु वर्णरूपतयोच्चरितप्रध्वंसित्वेना विद्यमानानि, पिण्डस्वे तु परमाण्वादित्रयप्रभृतिकसङ्घातलक्षणं पूर्वमुक्तं तच्च विद्यमानस्यैव पदार्थस्य घटते इति प्रत्यासत्या नामनामवतोरैक्यातच्छब्देन प्रभृतपरमाणुसंघात निष्पन्नशरीरो विद्यमानः शृङ्गिप्रभृतिको नामवत् पदार्थो गृह्यत इति, तत शृङ्गिप्रभृतिकं द्रव्यं ब्रुवते - कथयन्ति, पूर्वाचार्या इति शेषः, नामपिण्डं-नामपिण्ड इति ध्वनेर्वाच्यं एतेषां चतुर्णामपि मध्याच्चरमं व्यापकं यादृच्छिकत्वादित्युत्तरत्र सर्वत्र नामैषणादिषु सामान्यत इदमेव ग्राह्यं स्थापनापिण्डं वक्ष्यमाणार्थ, अत एव तस्माद्भणनादूर्द्ध वक्ष्ये अभिधास्य इति गाथा पर्यन्तपादस्य " अरूये " ( गा० ७ ) त्यादिकया वक्षमाणया सप्तमगाथया योग इति गाथार्थः ॥ ६ ॥ भावार्थ तु माध्यकारो यथावसरं वक्ष्यति, तत्र सामान्यतो नामनिरूपणायामाद्यनामविवरणाय माष्यकार एवाह
गुणनिष्फलं गोण्णं० ॥ भा० १ ॥ व्याख्या - गुणनिष्पन्नं मत्वर्थेन सिद्धं गौणं - गौणाभिधानं नाम, तस्याऽपि संज्ञान्तरमाह तं चैवति तदेव गौणमेव, यथार्थ - घटमानव्युत्पत्तिकं, अस्थवी इति, अर्थविदस्तीर्थ करादयः, अर्थविद्भिः प्ररूपितोऽर्थोऽवितथतया लोके आदेयः स्यादिति तद्रइणं, ब्रुवते वदन्ति, तच्च गौणं चतुर्द्धा तद्यथा द्रव्यनिमितं जातिनिमित्तं गुणनिमित्तं क्रियानिमितं चेति, तत्र द्रव्यं शृङ्गादिकं तदेव निमित्तं शृङ्ग्यादिरूपाभिधानवृत्तौ हेतुर्यत्र तद्बलीवर्दादिवाचिक शृङ्गीत्यादिकावर्णावली, एवमुचरत्रापि केवलं जातित्रा
For Private & Personal Use Only
परि० ९ वीराचार्य
कृतटीका
याराद्य
भागः ।
॥१३९॥
www.jainelibrary.org