SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Jain Education I परिमाणमस्येति चतुष्कः, स एव चतुष्ककः- चतुर्विधो-नामस्थापनाद्रव्य भावस्वभावः, एवं षट्कः- पटप्रकारो वक्ष्यमाणः, चकारः समुच्चये, कर्तव्यो विधेयः, अनयोश्चतुष्कको व्यापकः, सर्ववस्तुष्ववतारित्वात् षट्कस्त्वव्यापकः प्रतिनियतवस्तुष्ववतारित्ववादिति मेदो गुरवस्तु व्याचक्षते, चतुष्ककः सुखं सर्वश्रोतॄणां षट्कस्तु सकष्टं प्रतिनियतश्रोतॄणां प्ररूपत इति भेदः, अयं सामान्येन पिण्डस्य निक्षेप उक्तः, अथ तदनुवादपूर्वकं यद्विविधं तदाह- कृत्वा ऽऽविधाय, चकारोऽवधारणे भिन्नकमध्य, निक्षेपं पूर्वोक्तं, प्ररूपणा स्वरूपविचारणा, तस्यैवपिण्डस्यैव निक्षेपस्यैव वा, अवधारणमन्यतो योजितं कर्त्तव्या विधेयेति याथार्थः ॥ ३ ॥ नन्वेतयोः को निक्षिप्यते षट्क ? इति ब्रुमःकिं कारणमित्याशड्क्याह कुलए चउ भागस्स || ४ || ( प० २ ) व्याख्या – कुलके - चतुःसेतिकाप्रमाणे धान्यमाने, तुशब्दोऽवधारणे स च सम्भव एवेत्येवं योग्यः, चतुर्भागस्य सेतिकायाः सम्भवो विद्यमानता, यथेति शेष इति दृष्टान्तो, अथ दान्तिकमाह - षट्के प्रकान्ते नामादिषट्कनिक्षेपे पूर्वोके चतुर्णां चतुःसख्यानां नामादीनां निक्षेपस्येति प्रक्रमः, एवं तद्धितनियमेनावश्यं तथा सम्भवो विद्यमानता अस्तिविद्यते यत इति शेषः, षट्कं पूर्वोक्तं निक्षेपेत् तस्मात्ततः कारणाद्रिति गाथार्थः ॥ ४ ॥ तमेव षट्प्रकार निक्षेपमाह - मंठा पिंडो ॥ ५ ॥ व्याख्या - नामं ठवणा पिण्डोति अनुस्वरोऽलाक्षणिकत्वान्नामस्थापनापिण्डः, तथा दवेति सूचनाद् द्रव्यपिण्डः, एवं क्षेत्रे क्षेत्रपिण्डः, चकारः समुच्चये, तथा कालभावे - कालपिण्डो भावपिण्डश्च, चकारः पूर्ववत्, अयं षट्प्रकारोऽपि वक्ष्यमाणस्वरूपः, एष एवानन्तरोक्त एव, ललुरबधारणे योजित एव, पिण्डस्सइति पिण्डस्य पिण्डशब्दस्य, निक्षेपः पूर्वोक्तार्थः, षड्विधःपद्मकारः, भवति जायत इति द्वारषट्कप्रतिपादकगाथार्थः || ५ || नामपिण्डस्य व्याख्यानाय स्थापनापिण्डस्य तु सम्बन्धनायाह २४ For Private & Personal Use Only परि० ९ वीराचार्य कृतटीका याराद्य भागः । www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy