SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ क्षमारत्ननीया वचूर्युपेता श्री. पिण्डनियुक्तिः। परि०९ वीराचार्यकृतटीकायाराद्यभागः। ॥१३७॥ त्रिकप्रभृतिकाः पिण्डः, स च यद्यपि नामादिमेदैरनेकधा भविष्यति, तथाऽपीह संयमादिरूपभावपिण्डोपकारकस्य द्रव्यपिण्डस्य ग्रहण ज्ञेयं, सोऽप्याहारोपधिशय्याभेदात् त्रेधा, तत्राऽऽहारशुद्धेः प्रस्तुतत्वादाहाररूप एव प्रायः, ततश्च तस्मिन् पिण्डे अधिकृते विषयभूते वा, किमित्याह-उग्गमत्ति उद्गमनमुपद्गम उत्पत्तिरित्यर्थः, प्रथमैकवचनलोपः प्राकृतत्वात् , एवमुत्तरत्रापि विभक्तिलोपे विभक्तिव्यत्येऽनुस्वारलौपादौ वाऽभणितोऽप्ययं हेतु यः, स चाधाकादिमेदभिन्नः स्यात् , वक्ष्यति च-" आहाकम्मुद्देसिय" (गा. ९२) इत्यादि, तथा " उप्पायणा" (गा० ५१४ ) इत्यादि, उत्पादनमुत्पादना घायादिप्रकारैर्या(उमे) वक्ष्यति “धाईदूई (गा०४०९) "त्यादि, इह किलैषणा त्रिधा, तद्यथा-गवेषणा प्रह]षणा ग्रासैषणा च, तत्रोद्गमोत्पादनामहणेण गवेषणोक्ता, तथा 'एसणा' इति एषणाग्रहणकाले शङ्कितादिभिः प्रकारैरन्वेषणं, वक्ष्यति च (ह०प०१) "संकियमक्खिये " (गा० ५२० )त्यादि, अनेन तु ग्रहणैषणोक्ता, तथा 'संजोयणा' इति संयोजनं संजोयना-गृद्धया रसोत्कर्षोत्पादनाय सुकुमारिकादीनां खण्डादिभिः सह मीलनमित्यादिका, सा च द्रव्य. भावभिन्ना वक्ष्यति च, “दब्वे भावे संजोयणा" (गा० ६२१) इत्यादि, तथा 'पमाणे 'त्ति प्रमितिः प्रमाण-कवलसक्यालक्षणम् , एकारः प्रथमैकवचनार्थः, " बत्तीस किर कवला" (गा० ६४२)इत्यादि, चकारः समुच्चये भिन्नक्रमश्च, तथा इङ्गालत्ति चरित्रेन्धनस्यानारा- | णामिव करणमिति कारितेऽन्त्यस्वरादिलोपे "पुंसि संज्ञायां घ" इति घवाकारः, चारित्रेन्धनदहनसमर्थो रागपरिणामः, प्रथमैकवचनलोपश्छन्दोऽर्थ, तथा धूमत्ति चारित्रेन्धनस्य घूम[वत् ] इव करणमिति कारिते “मन्तुवन्तुविनां लुगि"ति वन्तुलोपेऽनुस्वरादिलोपे पूर्ववघे च धूमश्चारित्रेन्धनस्य धूमायमानताकरणसमर्थो द्वेषपरिणामः, प्रथमैकवचन लोपः पूर्ववत् , वक्ष्यति च-" तं होइ सइङ्गाल (गा० ६६५)" मित्यादि, तथा 'कारण 'ति प्रथमैकवचनलोपात्कार्यते प्राणीकार्यमनेनेतिकारणं, च निमित्तं, पूर्वोक्तः चकारोऽवयोजित, एवमुत्तरत्रापि ॥१३७॥ Jain Education Inter For Private Personal Use Only Aaw.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy