________________
परि०९ वीराचार्यकृतटीकायारायभाग:।
सियानासुखसमागमवद्धवाञ्छाः, संसारसागरसमुत्तरणैकचित्ताः ।
ज्ञानादिभूषणविभूषितदेहभागा, रागादिघातरतयो यतयो जयन्ति इति विरहि(चि)तपञ्चपरमेष्ठिसंस्तवो गुरुजनोपदेशेन । वक्ष्ये शिष्यहिताख्यां वृत्तिमिमां पिण्डनियुक्तः ॥ ६ ॥ पश्चाशकादिशास्त्रव्यूहप्रविधायिका विवृतिमस्याः। आरेभिरे विधातुं पूर्व हरिभद्रसूरिवराः ॥७॥ ते स्थापनाख्यदोषं यावद्विवृतिं विधाय दिवमगमन् । तदुपरितनी तु कैश्चिद्वीराचार्य समाप्येषा ॥८॥ तत्रामीभिरमुष्याः सुगमा गाथा इति विभाव्या । कश्चिन्न व्याख्याता या विवृतास्ता अपि ताः ॥९॥
सम्प्रति मन्दधियां दुर्बोधा इति मया समस्तानां । तासां व्यक्तव्याख्याहेतोः क्रियते प्रयासोऽयम् ॥ १०॥ इह हि जिनशासने चूलायुगकलितदशाध्ययनमतो देशकालिकाख्यः श्रुतस्कन्धोऽस्ति, तस्य च भद्रबाहुस्वामिसूरिणा नियुक्तिरकारि, तत्र च पिण्डैषणाभिधपश्चमाध्ययनस्य सत्को बृहन्दप्रथत्वात् पिण्डनियुक्तिरिति नाम दत्वेयं तेनैव पृथक्कृताऽशेषात् , सा दशकालिकनियुक्तिजातेत्यनेन सम्बन्धेनायाताया आदाविमा द्वारगाथामाह____ पिण्डे उग्गम० ॥१॥ व्याख्या-पिण्डोति “गोष्ट-लोष्ट-हुडि-पडिसङ्घात" इति स्वादिकस्य "पूण-ममू-हुडि-पडिसङ्घात" इति । विकल्पे "नस्याश्चरादयः" इति वचनादिनपत्ययाभावाश्रयणेन चौरादिकस्य वा पडिधातोः पिण्डनमतिभाव इति सूत्रेण घ(ध्वनितस्यैव वा चौरादिकस्येनागमनपक्षमाश्रित्य स्वरहगमिग्रहामलितिसूत्रादादापिण्डो मीलनमात्रं तच्च येषामस्ति तैः सहैक्योपचारात् त्रिप्रभृतिकाः परमाण्वादय एकत्र मिलिता पिण्डः, यद्वा तयोरपि धातोः पिण्ड्यत इति, " अकरि च कारके संज्ञाया"मितिषभित् एव, परमाण्वादि
|www.jainelibrary.org
For Private Personal Use Only
JainEducation inte