SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ परि०९ वीराचार्यकृतटीकायाराधभागः। चकारो वाशब्दादिश्चान्यत्रस्थितेऽपि यत्र घटते तत्र योज्यः, वक्ष्यति च “वेयणे" (गा० ६६२) त्यादि, इह संयोजनादिपद-| पश्चकेन प्रासैषणोक्ता, उपप्रदर्शनार्थेति शब्दलोपादित्यनेन पिण्डस्य सर्वत्र गतत्वेन व्यापकतयाऽभेदेनागणनादुद्गमाभणनरूप(य)कारण, अविहा' इति अष्टविधा-ऽष्टमेदा, का सा विहीत्याह पिण्डनिज्जुत्ती इति निर-निश्चयेन सततावियोगस्वरूपाधिक्येन वा यक्तियोजन सम्बन्ध इत्यर्थः, सूत्रेण सह येषां ते नियुक्तियो(क्त्यर्थास्तेषां युक्तिर्योजनं परिपाट्यास्तानित्यर्थः, ततश्च नियुक्तीनां युक्तिनियुक्तिरिति वाच्ये मध्यपदलोपितत्पुरुषेण प्रथमयुक्तिशब्दलोपानियुक्तिः, यद्वा निरिति पूर्ववद्युक्ताः-सम्बद्धा सूत्रेण सह ये ते नियुक्तास्तेिषां युक्तिः पूर्वोक्ता, ततश्च निर्युक्तानां युक्तिनिर्युक्तयुक्तिरितिवाच्ये पूर्ववद्युक्तशब्दलोपान्नियुक्तिः, यथोक्त]ष्ट्रमुखवन्मुखं यस्याः सोष्टमुखी कन्या, ततश्च पिण्डस्य-आहारस्य नियुक्तिः पिण्डनियुक्ति:-आहारशुद्ध्य शुद्धिपतिपादको ग्रन्थ इत्यर्थः, भवतीति शेषः, इति द्वाराष्टकप्रतिपादकगाथासमासार्थः ॥ १॥ अवयवार्थे तु ग्रन्थकारः स्वयमेव वक्ष्यति, तत्र “यथोद्देशं निर्देश" इति न्यायापिण्डस्य व्यासार्थः प्रस्तुतसूत्रामपि " तत्त्वभेदपर्यायव्यख्येि"ति कमात्पूर्व तत्त्वं वाच्यं, तच्च त्रिः प्रभृतिकाः परमाण्वादय एकत्र मिलिताः पिण्ड इति पूर्वमेवोक्तम् , अथ तस्यैव मेदभणनं क्रमायातमपि विचित्रत्वात् सूत्रगतेरित्युल्लङ्घ्य तावदेकार्थिकशब्दानाह पिंडनिकाय॥२॥ व्याख्या-पिण्ड निकाय समूहेति समाहारात् पिण्डनिकायसमूह, सर्वत्र प्राकृतत्वादेकारः तेन, तथा सम्पिण्डिनपिण्डना चकारः समुच्चये, तथा समवायः, तथा समवसरणनिचयोपचयं, चकारः पूर्ववत्, तथा युग्मं, चकारः पूर्ववत् , तथा राशिः, चकारोनिकरादीनां समुच्चयार्थः, एकार्थिकाः स्युरिति शेषः, एते सर्वेऽपि सामान्यतस्त्रिप्रभृतिके सङ्घाते वर्तन्ते, विशेषतस्तु कश्चित्कापि कस्मिन् Pा रूढः, यथा पिण्डशब्दो गुडादिपिण्डरूपे सङ्घाते, निकायशब्दस्तु भिक्षुकादिसङ्घाते, समूहशब्दस्तु मनुष्यादिसङ्घाते, सपिण्डनशब्दस्तु Jain Education in For Private & Personel Use Only alwww.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy