________________
क्षमारत्नीया
वचूर्युपेता श्री.
पिण्डनिर्युक्तिः ।
॥११५॥
Jain Education Inte
संजोयणा उभावे संजोएऊण ताणि दबाई | संजोयइ कम्मेणं कम्मेण भवं तओ दुक्खं ॥६३९॥ तानि द्रव्याणि संयोजयन् आत्मानमप्रशस्तेन गृध्यात्मकेन भावेन संयोजयति, एषा भावे संयोजना, तथा चात्मनि कर्म्म संयोजयति, कर्म्मणा च भवं भवेन दुःखम् ।। ६३९ ।। अथ द्रव्यसंयोजनाया अपवादमाह
पत्तेय पउरलंभे भुत्तुवरिए य से सगमणट्ठा। दिट्ठो संजोगो खलु अह कम्मो (कमो) तस्सिमो होइ ॥ प्रत्येकमेकैकसङ्घाटकं प्रति प्रचुरलाभे सति भुक्तोद्धरिते शेषस्य निर्गमनार्थम्, दृष्टः- अनुज्ञातः, संयोगस्तीर्थकदादिभिरिति, तथा लाभात्, अथवाऽन्योऽपि तस्य संयोगस्य क्रमो भवति ॥ ६४० ॥ तमेवाह
रसहेउं पडिसिद्धो संयोगो कप्पए गिलाणट्टा । जस्स व अभत्तछंदो सुहोचिओऽभाविओ जो य ॥
रसहेतोः प्रतिषिद्धः संयोगो, ग्लानार्थं तु कल्पते, यद्वा यस्य अभक्तछन्दो - मक्तारुचि, यश्च सुखोचितो - राजपुत्रादिः वाद्याप्य भावितो - परिणितचारित्रः ( शैक्षकः ) तन्निमित्तं संयोगोऽपि कल्पते इति अपवादपदम् ।। ६४१ ।। अथाहारप्रमाणद्वारमाह
बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्त महिलियाए अट्ठावीसं भवे कवला ॥
सुगमा, परं नपुंसकस्य चतुर्विंशतिकवला अनुक्ता अपि ज्ञेयाः, तस्य प्रायो दीक्षानर्हत्वादकथनं कवलप्रमाणं कुक्कुट्यण्डं, कुक्कुटी द्विधा - द्रव्यतो मावतच, द्रव्यकुक्कुट्यपि द्विधा - उदरकुक्कुटी गलत्कुक्कुटी च, ततो साधोरुदरं यावन्मात्रेणाहारेण न
For Private & Personal Use Only
संयोजना
दोष
स्वरूपम् ।
॥११५॥
www.jainelibrary.org