________________
Jain Education Intern
वे भावे संजोअणा उ दवे दुहा उ बहिअंतो । भिक्खं चिय हिंडतो संजोयंतंमि बाहिरिया ॥६३६ संयोजना द्विधा-द्रव्यभावे च द्रव्ये पुनर्द्विधा बहिरन्तश्च तत्र यदा भिक्षार्थमेव हिण्डमानः सन् क्षीरादिकं खण्डादिभिः सह रसविशेषोत्पादनाय संयोजयति, एषा बाह्या वहिर्भूतत्वात् ।। ६३६ ॥ एतदेव स्पष्टमाहखीरदहिसू कहरलंभे गुडसप्पिवडगवालुंके । अंतो उ तिहा पाए लंबण वयणे विभासा उ ॥ ६३७॥
क्षीरदधिम्रपानां प्रतीतानां कट्टरस्य - तीमनविशेषस्य लाभे सति तथा गुड्सपिर्वटकवालुङ्कानां प्राप्तौ सत्यां रसोत्पादनायानुकूलद्रव्यैः सह संयोजनं यत्करोति, बहिरेव स बाह्येति, अभ्यन्तरा पुनर्वसतावागत्य भोजनवेलायां संयोजयति, तथा चाह - अन्तस्तु संयोजना त्रिधा - पात्रे लम्बने वदने च ततोऽस्यास्त्रिविधाया अपि विभाषा व्याख्या कर्त्तव्या सा चैवं पात्रे विशेषोत्पादनाय यत् क्षीरघृतखण्डादिसंयोगं करोति, एवं लम्बने - कवले हस्तस्थिते, एवं वदने कचले क्षिप्ते || ६३७ || अत्र दोषमाह
संजोयणाए दोसो जो संजोएइ भत्तपाणं तु । दबाई रसहेउं वाघाओ तस्सिमो होइ ॥ ६३८ ॥
संयोजनायां यो द्रव्यस्य सुकुमारिकादे रसहेतभक्तं पानं चान्यद्रव्येण खण्डादिना संयोजयति, अन्त्रार्षत्वादादिशब्दस्य व्यत्ययेन योजनाः, तेन रसहेतोरित्यादिशब्देन शुभगन्धादिनिमित्तं च तस्य साधोरयं वक्ष्यमाणो दोषो व्याघातरूपो भवति ।। ६३८ ।। तमेव भावयन् भावसंयोजनामप्याह
२.
For Private & Personal Use Only
संयोजनादोष
स्वरूपम् ।
www.jainelibrary.org