SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Jain Education In न्यूनं नाप्याध्मात आहार एव स उदरकुक्कुटी, उदरपूरक आहारः कुक्कुटीव उदरकुक्कुटीति मध्यपदलोपिसमासाश्रयणात्, तस्य द्वात्रिंशत्तमो भागोऽण्डकं, तत्प्रमाणं कवलस्य, अथवा गल एव कुक्कुटी तस्यान्तरालमण्डकं, अयं भावः - अविकृतास्यस्य पुंसो गलान्तराले यः कवलो विलग्नः प्रविशति तत् प्रमाण कवलस्य, अथवा शरीरमेव कुक्कुटी सन्मुखमण्डकं, तत्राक्षिकपोल. वां विकृतिमनापाद्य यः कवलो मुखे प्रविशति तत् प्रमाणं, अथवा कुक्कुटी-पक्षिणी तस्या अण्डकं प्रमाणं कवलस्य, भावकुक्कुटी तु येन आहारेण भुक्तेन न न्यूनं नाप्यत्याध्मातं स्या[दुदाहर्ति ] (दुदरं) धृतिं च समुद्रहति तावत्प्रमाण आहारो भाव कुक्कुटी, अत्र भावस्य प्रधानत्वादेष प्राक् द्रव्यकुकुट्यप्युक्तः, इह भावकुक्कुटी उक्तः, तस्य द्वात्रिंशत्तमो भागोऽण्डकं तत् प्रमाणं कवलस्य ।। ६४२ ॥ एत्तो किणाइ हीणं अर्द्ध अद्धद्वयं व आहारं । साहुस्स बिंति धीरा जायामायं च ओमं च ॥६४३॥ एतस्माद्वात्रिंशदादिकवलप्रमाणाहारात् 'किणाइ' इति कियन्मात्रया एकेन द्वाभ्यां वा हीनं यावदर्द्धमर्द्धस्याप्यर्द्ध. माहारं यात्रामात्राहारं साधोधराः - तीर्थ कदादयो ब्रुवते, न्यूनं च । एष एव यात्रामात्राहार एष एवावमाहारश्च ।। ६४३ ॥ अथ प्रमाणदोषानाह पगामं च निगामं च, पनीयं भत्तपाणमाहारे । अइबहुयं अइबहुसो, पमाणदोसो मुणेो ॥६४४॥ यः प्रकामं निष्कामं प्रणीतं वा भक्तपानमाहारयति, तथाऽतिब हुकमतिबहुशश्च तस्य प्रमाणदोषो ज्ञातव्यः ॥ ६४४ ॥ For Private & Personal Use Only आहारप्रमाणम् । www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy