________________
कल्पितो
दाहरणे
मत्सोक्तिः।
अथ मांसे प्रवीणे ध्यायन्तं मात्सिकं मत्स्यो भणति, यथा किं त्वमेवं ध्यायसि , शृणु तावत यथा त्वमट्टीकोनिर्लजो भवसि ॥ ६३१ ॥ तिबलागमुहम्मुक्को, तिक्खुत्तो वलयामुहे । तिसत्तक्खुत्तो जालेणं, सइ छिन्नोदए दहे ॥ ६३२ ॥ __अहमेकदा श्रीन वारान् बलाकाया मुखादुन्मुक्ता, तथाहि-कदाचिदहं चलाकया गृहीतस्ततस्तया मुखे प्रक्षेपार्थमूर्ध्वमस्क्षिप्तस्ततो मया चिन्तितं, यद्यहमृजुरेवास्या मुखे निपतिष्यामि तर्हि पतितोऽयं मुखे इति न मम प्राणकुशलं, तस्मात्तिर्यग निपतामीत्येवं विचिन्त्य तथैवकृतं, परिभ्रष्टस्तस्या मुखात्ततो भूयोऽप्यूर्वमुत्क्षिप्तस्तथैव द्वितीयवारमपि मुखास्परिभ्रष्टा, वतीयवेलायां तु जले निपतितस्ततो दूरं पलायितः, तथा त्रि:कृत्वा-त्रीन् वारान् वलयामुखे भ्राष्टरूपे निपतितोऽपि दक्षतया शीघ्र वेलयैव सह विनिर्गतः, तथा त्रिसप्तकृत्वा-एकविंशतिवारान् मात्सिकेन जाले प्रक्षिप्तेऽपि पतितो यावमायापि स मत्स्यबन्धी सोचयति जालं तावत् येनैव मार्गेण यथा प्रविष्टस्तेनैव ततो जालाद्विनिर्गतः, जालेनेति तृतीयार्थे पश्चमी द्रष्टव्या, तथा सकृत्-एकवारं मात्सिकेन इदजलमन्यत्र सञ्चार्य तस्मिन् इदे छिनोदके बहुभिर्मत्स्यैः सहाहं गृहीतः, सच सर्वानपि तान् मत्स्यान् यावदेकत्र पिण्डीकृत्य तीक्ष्णाय शलाकायां प्रोतयति, ततोऽहं दक्षतया यथा मात्सिको न पश्यति तथा स्वयमेव तामयःशलाकां वदनेन लगित्वा स्थितः, स च मासिकस्तान कईमलितान् प्रक्षालयितुं सरसि जगाम, तेषु च प्रक्षाल्यमानेष्वन्तरं ज्ञात्वा झटत्येव जलमध्ये निमनवान् ॥ ६३२ ॥
Jain Education I L
onal
For Private Personal Use Only
www.jainelibrary.org