________________
क्षमारत्नीया
बचूर्युपेता
श्री
पिण्ड
निर्युक्तिः ।
॥११३॥
Jain Education Intel
सिद्ध इति ॥ ६२८ ॥ उक्तमेषणाद्वारं, अथ ग्रासैषणायाः संयोजनादीनि पदानि वक्तव्यानि ततो ग्रासैषणानिक्षेपमाहमंठवणा दविए भावे घासेसणा मुणेयव्वा । दवे मच्छाहरणं भावंमि य होइ पंचविद्दा ॥ ६२९ ॥ नामस्थापना द्रव्यभावभेदाच्चतुर्द्धा ग्रासैषणा, नामस्थापने प्रागिव, द्रव्ये मत्स्यः उदाहरणम्, भावग्रासैषणा संयोजनादिभेदात् पश्चविधा ॥ ६२९ ।। तत्र द्रव्यग्रासैषणोदाहरणस्य सम्बन्धमाह
चरियं व कप्पियं वा आहरणं दुविहमेव नायबं । अत्थस्स साहणट्ठा इंधणमिव ओयणट्टाए ॥ ६३० विवक्षितार्थस्य साधनार्थं चरितं कल्पितं वा द्विधा उदाहरणं ज्ञातव्यम्, 'इन्धनमित्र ओदनार्थ, तत्र प्रस्तुतार्थसाधनार्थमिदं कल्पितमुदाहरणं, तथाहि - ( दृ० ४५ )
Parsaat मत्स्यबन्धी मत्स्यग्रहणनिमित्तं सरो गतवान् गत्वा तेन तटस्थेनाग्रभागे मांसपेशीसमेतो गलः सरोमध्ये प्रचिक्षिपे, तत्र च सरसि परिणतबुद्धिरेको महादक्षो जीर्णमत्स्यो वर्त्तते, स गलगतमांसगन्धमाघ्राय तद्भक्षणार्थं गलस्य समीपमुपागत्य यत्नतः पर्यन्तेर सकलमपि मांसं खादित्वा पुच्छेन चागलमाहत्य दुरतोऽपचक्राम, मत्स्यबन्धो च गृहीतो गन मत्स्य इति विचिन्त्य गलमाकुष्टवान् पश्यति मत्स्यमांसपेशी रहितं गलं, ततो भूयोऽपि समांसं गलं चिक्षेप, मत्स्येनापि तथैव कृतं एवं श्रीन् वारान् मत्स्यो मांसं खादितवान् न च गृहीतो मत्स्यबन्धकेन ॥ ३३० ॥ अह मंसंमि पहीणे झायंतं मच्छियं भणइ मच्छो । किं झायसि तं एवं सुण ताव जहा अहिरिओऽसि ॥ ६३१
For Private & Personal Use Only
द्रव्यप्रासैषणाय
. कल्पितोदाहरणम् ।
॥११३॥
www.jainelibrary.org