________________
Jain Education
छर्दितविषये सचित्ते कदाचित् सचिते अचित्ते मिश्रे वा छर्द्यते, ततश्चतुर्भङ्गी भवति, अत्र जातावेकवचनं, तत्र प्रागिव तिचतुर्भङ्गो भवन्ति, सर्वसङ्ख्यया पूर्ववच्चत्वारि शतानि द्वात्रिंशदधिकानि । एतेषु सर्वेषु भङ्गेषु प्रतिषेधो-भक्तादिनिवारणं, यदि पुनर्ग्रहणं कुर्याचत आज्ञाभङ्गादयो दोषाः ॥ ६२७ ॥ अथ छर्दितग्रहणे दोषानाहउसिणस्स छड्डणे देंतओ व उज्झेज्झ कायदाहो वा । सीयपडणंमि काया पडिए महुबिंदु आहरणं ॥
उष्णस्य द्रव्यस्य छर्दने ददमानो वा भिक्षां दह्येत् भूम्याश्रितानां कायादीनां पृथ्वीकायादीनां दाहः स्यात्, शीतद्रव्यस्यापि भूमौ पतने काया:- पृथ्व्यादयो विराध्यन्ते तत्र पतिते मधुबिन्दुदाहरणं, तथाहि - ( ० ४४ )
वारतपुरे अभयसेनो राजा वारतको मन्त्री, अन्यदा मन्त्रिगृहे धर्म्मघोषसाधुर्भिक्षार्थमायातः, तद्भार्या च तस्मै भिक्षादानाय घृतखण्डसन्मिश्रपाय सभृतस्थालमुत्पाटितवती, अत्रान्तरे च कथमपि खण्डमिश्र घृतबिन्दुर्भूमौ निपतितः, साधुरपि छर्दितदोषदुष्टां भिक्षां ज्ञात्वा नात्तभिक्षाक एवं निर्जगाम, दृष्टं च तत्स्वरूपं मत्तवारणस्थितेनामात्येन, ततश्चिन्त - यामास - किमनेन भगवता भिक्षा न गृह्यते स्म यावदेवं चिन्तयति तावत्तत्रविन्दौ मक्षिकाः समागत्याशिश्रियन्, तासां च भक्षणाय प्रधाविता गृहगोधिका, तस्या अपि वधाय प्रधावितः सरटः, तस्यापि वधाय धावति स्म मार्जारी, तस्या अपि च वधाय प्रधावितः प्राघूर्णकः श्वा, तस्यापि च प्रतिद्वन्द्वी प्रधावितोऽन्यो वास्तव्यः श्वा द्वयोरपि शुनोरन्योऽन्यं कलहोऽभूत्, ततः स्वस्वसारमेयपराभवदूनमनस्कतया प्रधावितयोर्द्वयोरपि तत्स्वामिनोरभूत्परस्परमस्यसि युद्धम्, तद्दृष्ट्वा वारत्तकामात्यस्य श्रीसर्वज्ञमते श्रद्धा बभूव, ततोऽमात्यो धर्म्मघोषसमीपे दीक्षामादाय केवलव्याघ्या (लमवाप्य )
For Private & Personal Use Only
छर्दिते मधुबिन्दुदाहरणम् ।
www.jainelibrary.org