________________
बमा.
रत्नीयाबचूर्युपेता
भजनायामष्टभङ्गकाः।
श्री.
पिण्डनियुक्ति ॥११२॥
'पच्छा कम्मं तहिं भईयं ॥ ६२५ ॥ अथ तामेव भजनामष्टभङ्गिकयाहसट्रेयर हत्थो मत्तो विय दव सावसेसियरं । एएस अट भंगा नियमा गहणं तु ओएसु ॥६२६॥
दातहेस्तः संसष्टोऽसंसष्टो वा स्यात,येन च कृत्वा भिक्षां ददाति. तदपि मात्र संसष्टं असंसृष्टं वा, द्रव्यमाप सावशेष इतरद्वा, एतेषां च त्रयाणां पदानां-< संसृष्टहस्त>संसृष्टमात्रसावशेषद्रव्यरूपाणां सप्रतिपक्षाणां परस्परं संयोगतोऽष्टौ भङ्गा भवन्ति, ते चामी-संसृष्टो हस्तः संसृष्टं मात्रं सावशेष द्रव्यं १, संसृष्टो हस्तः संसृष्टं मात्रं निरवशेष द्रव्यं २, संसृष्टो हस्तोऽसंसृष्टं मात्रं सावशेषं द्रव्यं ३, संसृष्टो हस्तोऽसंसष्ट मात्र निरवशेषं द्रव्यं ४, असंसृष्टो हस्तः संसृष्टं मात्र सावशेष द्रव्य ५, असंसृष्टो हस्तः संसृष्टं मात्र निरवशेष द्रव्यं ६, असंसृष्टो हस्तोऽसंसष्टं मात्रं सावशेष द्रव्यं ७, असंसृष्टो हस्तोऽसंसृष्ट मात्र निरवशेष द्रव्यम् ८, एतेषां मध्ये नियमाव-निश्चयेन ओजस्सु-विषमेषु प्रथमतृतीयपश्चमसप्तमेषु भङ्गेषु ग्रहणं कार्य न समेषु-द्वितीयादिषु इति, अयं भावो-हस्तो मात्रं वा द्वे वा स्वयोगेन संसृष्टे भवतः, असंसृष्टे वा न तद्वशेन पश्चात्कम्म सम्भवति, किन्तु द्रव्यवशेन, तथाहि-यत्र द्रव्यं सावशेष तत्रैव ते साध्वर्थ खरण्टितेऽपि दात्री न प्रक्षालयति, भूयोऽपि परिवेषणसम्भवात् , यत्र तु निरवशेष द्रव्यं तत्र साधुदानानन्तरं नियमतस्तद्रव्याधारस्थाली हस्तं मात्र वा प्रक्षालयतीति पश्चात्कर्मसम्भवः ॥ ६२६ ।। अथ छर्दितद्वारमाहसच्चित्ते अच्चित्ते मीसग तह छड्डणे य चउभंगो । चउभंगो पडिसेहो गहणे आणाइणो दोसा॥६२७॥
॥ ११२ ॥
Jain Education Inter
For Private & Personel Use Only
N
j ainelibrary.org