________________
क्षमारत्नीयापर्युपेता
श्रीपिण्डनियुक्ति ॥९९॥
॥ ५४८ ॥ अथाग्निकायेऽनन्तरपरम्परे व्याख्यानयन् “ अगणिम्मि सत्त विहो" इति व्याख्यानयति
सप्तधाविज्झायमुम्मुरिंगालमेव अप्पत्तपत्तसमजाले । वोकंते सत्तदुगं जंतोलित्ते य जयणाए ॥ ५४९ ॥ .INनिकायः।
सप्तधा बहिः, तथाहि-विध्यातो मुर्मुरोरङ्गारोप्राप्त प्राप्तः समज्वालो व्युत्क्रान्तश्च, यः प्रथमं नोपलभ्यते पश्चादिन्धनप्रक्षेपे ज्ञायते स विध्यातः १, आपिङ्गला अर्द्धविध्याता अग्निकणा मुर्मुरः २, ज्वालारहितो बहिरङ्गार ३, यच्चुल्या उपरिस्थं पिठरं ज्वालाभिर्न प्रामोति सोप्राप्तः ४, यस्तु प्रामोति स प्राप्तः ५, यः पिठरस्य बुनामपि यावत्कर्णी ज्वालाभिः स्पृशति स समज्वालः ६, यस्य ज्वालाः पिठरकर्णादूर्ध्वमपि गच्छन्ति स व्युत्क्रान्तः ७, एते मेदास्तेजस्कायस्य एकैकोऽप्यनन्तरपरम्परमेदाद् द्विधा, तत्र यद्विध्यातादिरूपे वह्नौ मण्डकादि प्रक्षिप्यते, तदनन्तरनिक्षिप्तं, वहथुपरि पिठरादौ परम्परं चेति, तत्र सृप्तानां मेदानां मध्ये यमेव तमेव भेदमाश्रित्य यन्त्रे-इक्षुरसपाकस्थाने कटाहादावविलिप्ते मृत्तिकाखरण्टिते यतनया परिशाटिपरिहारेण ग्रहणमिक्षुरसस्य कल्पते ॥ ५४९॥ अथैनामेव गाथां व्याख्यानयन् गाथाद्वयेन विष्यातादिस्वरूपमाहविज्झाउत्ति न दीसइ अग्गी दीसेइ इंधणे छुढे । आपिंगल अगणिकणा मुम्मुर निजाल इंगाले॥५५० अप्पत्ता उ चउत्थे जाला पिढरंतुपंचमे पत्ता। छठे पुण कण्णसमा जाला समइच्छिया चरिमे ॥५५१ सुगमम् ॥ ५५०-५५१ ॥ अथ " जंतोलित्ते य जयणाए (५४९)" इति व्याख्यानयति
॥ ९९ ॥
Jain Education Intel
For Private & Personel Use Only
प
w
.jainelibrary.org