________________
Jain Education International
हिरण संकिणं गहिआ अन्त्रेण सोहिया सा य । पगयं पहेणगं वा सोउं निस्संकिओ भुंजे ॥५२७॥ शङ्कितहृदयेन या भिक्षा गृहीता साऽन्यसङ्घाटिकेन शोधिता, यथा प्रकृतं प्रकरणं किमपि प्राचूर्णकभोजनादिकं, यदि वा प्रहेणकं कुतश्चिदन्यस्माद्गृहादायातमिति, द्वितीयसङ्घाटकादेतत् श्रुत्वा यो निःशङ्कितो भुङ्क्ते स द्वितीयभङ्गः ।। ५२७ ॥ तृतीयभङ्गसम्भवमाह -
जारिसए च्चिय लद्धा खद्धा भिक्खा मए अमुयगेहे । अन्नेहिं वि तारिसिया वियडंत निसामए तइ ॥
कोsपि साधुभिक्षाको विकट्यतां - गुरोरग्रतः सम्यगालोचयतां आलोचनाश्रवणे सति शङ्कते यादृश्येव मया प्रचुरा भिक्षा लब्धा तादृश्येवान्यैरपि सङ्घाटकैः, तन्नूनमेतदाधाकर्मादि दोषदुष्टं भविष्यतीति भुञ्जानो यतिस्तृतीये भङ्गे वर्चते ।। ५२८ ।। अत्र पर आह
जइ संका दोसकरी एवं सुद्धपि होइ अविसुद्धं । निस्संकमेसियंति य अणेसणिज्जंपि निद्दासं ॥५२९ ॥
यदि शङ्का दोषकारी तत एवं सति इदमायातं - शुद्धमपि शङ्कितं अशुद्धं भवति, तथा अनेषणीयमपि निःशङ्कितमन्वेषितं शुद्धं प्राप्नोति, न चैवं युक्तं, स्वभावतः शुद्धस्याशुद्धस्य वा शङ्काभावाभावमात्रेणान्यथा कर्त्तुमशक्यत्वात् ॥ ५२९ ॥ अत्राचार्य आह- सत्यमेतत् तथाहि
अविसुद्धो परिणामो एगयरे अवडिओ य पक्खमि । एसिंपि कुणइ सिं अणसिमोसें विसुद्धो उ ॥ ५३०
For Private & Personal Use Only
शङ्काया भङ्गाणां
विवरणं ।
www.jainelibrary.org