SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ क्षमा रत्नीयावचूर्युपेता श्री. पिण्डनिर्युक्तिः । ॥ ८८ ॥ Jain Education Inte प्रकाशकं राष्ट्रपालं नाम नाटकं, ततो विज्ञप्तो विश्वकर्म्मणा सिंहरथो राजा, देव ! आषाढभूतिना राष्ट्रपालं नाम नाटकं कृतम्, परं तत्र राजपुत्रपश्ञ्चशतैराभरण विभूषितैः प्रयोजनं, ततो राज्ञा दत्तानि राजपुत्राणां पञ्चशतानि यथाऽयमाषाढभूतिना शिक्षितानि ततः प्रारब्धं नाटकं नर्त्तितुं तत्रापाढभूतिरात्मना भरतो जातो, राजपुत्राश्च सामन्तादयः, तत्र यथा भरतेन पट्खण्डं भरतं प्रसाधितं चतुर्दश रत्नानि नव निधयः प्राप्ता यथा चाssदर्शगृहे केवलं यथा पश्चशतपरिवारेण सह प्रव्रज्यों, तत् सर्वमप्यभिनीयते, ततो राज्ञा लोकेनापि तुष्टेन हारकुण्डलस्वर्णादि प्रभूतं दत्तं, ततः सर्वजनानां धर्म्मलाभं प्रदाय पञ्चशतपरिवार आषाढभूतिर्गन्तुं प्रावर्त्तत, किमेतदिति राज्ञा निवारिते प्राह-किं भरतो दीक्षामादाय निवृत्तो येनाहं निवर्त्ते इति, गतः सपरिवारो गुरुसमीपं वस्त्राभरणादिकं च निजभार्याभ्यां दत्तवान्, तच्च प्रजीवनकं तयोर्जातं गृहीता दीक्षा, तदपि नाटकं विश्वकर्म्मणा कुसुमपुरे नर्त्तितुमारब्धं तत्रापि पञ्चशतसङ्ख्याः क्षत्रियाः प्रव्रज्यां गृहीतवन्तः, ततो लोकेन चिन्तितं एवं क्षत्रिया प्रव्रजन्तो निःक्षत्रियां पृथिवीं करिष्यन्तीति नाटकपुस्तकमनौ प्रवेशितम् । सूत्रं सुगमम् - नवरं ' रायनडगेपवेसणं 'ति, राजविदितो यो नटो विश्वकर्मा तस्य गृहे प्रवेशः, त्वग्दोषी - कुष्ठी, उपसर्गः -प्रत्रज्याग्रहणे निवारणं, दहनं नाटक पुस्तकस्य । अत्रैवापवादमाह – गेलन्नत्ति ग्लानो - मन्दः, क्षपको - मासक्षपकादिः प्राधूकः स्थविरः, आदिशब्दात् सङ्घकार्यादिपरिग्रहः, तेषामर्थाय द्वितीयमपवादपदं सेव्यते - मायापिण्डोऽपि ग्राह्यः ॥ ४७४४८० ॥ अथ लोभद्वारमाह लब्भंतंपि न गिण्हइ अन्नं अमुगंति अज्ज घेच्छामि। भद्दरसंति व काउंगिण्हइ खद्धं सिणिद्धाई ॥ ४८१ ॥ For Private & Personal Use Only माया० आषा० दृष्टान्तः । | ॥ ८८ ॥ www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy