SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Jain Education Internationa अद्याममुकं गृहीष्यामि सिंहकेसरादिकमिति बुद्ध्या अन्यद्वल्लादिकं लभ्यमानमपि यन्न गृह्णाति, किन्तु तदेव स लोभपिण्डः, अथवा लभ्यमानं खद्धं प्रचुरं स्निग्धादिभद्रकरसमिति कृत्वा यद् गृह्णाति स लोभपिण्डः ॥ ४८१ ॥ तत्र प्रथमभेदमाश्रित्योदाहरणं गाथाद्वयेनाह - ( ० > चंपा छमि घिच्छामि मोयए तेवि सीहकेसरए । पडिसेह धम्मलाभं काऊणं सीहकेसरए ॥४८२ ॥ सङ्कङ्करत्तकेसरभायण भरणं च पुच्छ पुरिमड्ढे । उवओग संत चोयण साहुत्ति विगिंचणे नाणं ॥ ४८३॥ चम्पापुर्यां सुव्रतसाधुः, मोदकोत्सवः, मया. सिंहकेसरा एव मोदका ग्राह्या इति सम्प्रधार्य भिक्षार्थं प्रविष्टो, लोलुपतयाsन्यत् प्रतिषेधेन सिंहकेसरा न लभमानः सार्द्धं प्रहरद्वयं यावत् परिभ्रमति, ततो न लब्धा मोदका इति, प्रनष्टचित्तो जातः, ततो गृहद्वारे प्रविशन् धर्मलाभस्थाने ' सिंहकेसरा' इति वदति, एवं सकलमपि दिनं भ्रान्त्या रात्रौ तथैव परिभ्रमन् प्रहरद्वयसमये श्रावकस्य गृहे प्रविवेश धर्म्मलाभस्थाने ' सिंहकेसरा' इत्युक्ते गीतार्थः श्रावकश्चिन्तयामास - नूनमयं सिंहकेसरार्थी अलब्धलाभश्च तेन चित्तविप्लुतवानिति सिंहकेसरभृतं भाजनमुपढौकितं भगवन् ! गृहाणेत्युक्ते साधुना गृहीताः, स्वस्थीभूतं चित्तं, श्रावकथाह - भगवन्नद्य मया पूर्वार्धः प्रत्याख्यातः, स किं पूर्णो न वेति, ततः सुव्रत उपयोगमृदुर्व दत्तवान् पश्यति गगनमण्डलमने कतारासहित मर्द्धरात्रोपलक्षितं, ततो भ्रममात्मीयं ज्ञात्वा स्वनिन्दन् - मो श्रावक ! भव्यं कृतं यदहं प्रतिबोधितः, एवं सतां नोदनेत्युक्त्वा विधिना मोदकान् परिस्थापयन् कथमपि तथा शुक्लध्यानेन घातिक For Private & Personal Use Only लोभपिण्ड स्वरुपमुदा हरणश्च । www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy