________________
क्षमा- रत्नीया- वर्युपेता
श्रीपिण्डनियुक्ति
आजीवद्वार तद्भेदाः जात्यादिलक्षणानि
एतदेव गाथाद्वयेन भाष्यकृदाहदूरा भोयण एगागि आगओ परिणयस्स पच्चोणी । पुच्छा समणे कहणं साइयंकार सुमिणाई।भा०३३ कोवो वडवागब्भं च पुच्छिओ पंचपुंडमाइंसु फालणदिट्रेजइ नेव तो तुहं अवितहं कहवा॥भा०३४
सुगम, परं पच्चोणी-सन्मुखागमनं, साइयंकारिति-सप्रत्ययं स्वमादि, यदि वाऽनेन साधुना प्रत्ययकथनेनात्मनो वधः पारदारिकत्वं दूषणं च परिहृतं, कति पुनरेवंविधास्तस्मानिमित्तं साधुना वर्जनीयमिति ॥ ३३-३४ ॥ अथाजीवद्वारमाहजाई कुल गण कम्मे सिप्पे आजीवणा उपंचविहा। सूयाएँ असूयाएँ व अप्पाण कहेहि एकेके ॥४३७
जातिकुलगणकर्मशिल्पविषया पञ्चविधाजीवना, सा चैकैकस्मिन् भेदे द्विधा, सूचया असूचया वाऽऽत्मानं कथयति, तत्र सूचा-वचनभङ्गिविशेषेण कथनं, असूचा-स्फुटवचनेनेति ॥ ४३७ ॥ अथ जात्यादीनां लक्षणमाहजाईकुले विभासा गणो उ मल्लाइ कम्म किसिमाइ। तुलाइ सिप्पऽणावज्जगं च कम्मेयराऽऽवजं ॥४३८ ___जातिकुले विभाषा कार्या, यथा जातिर्बाह्मणादिका 'कुल'मुग्रादि, यद्वा मातृसमुत्था जातिः, पितृसमुत्थं कुलं, गणो-मल्लादिवृन्द, कर्म-कृष्यादि, शिल्पं-तूर्णादि तूर्णनं-सीवनमित्यादि, अथवा अनावर्जक-अप्रीत्युत्पादकं कर्म इतरत्त । आवर्जकं प्रीत्युत्पादकं शिल्पं, अन्ये वाहु:-अनाचार्योपदिष्टं कर्म, आचार्योपदिष्टं शिल्पमिति ॥ ४३८ ॥ अथ स्वजातिप्रकटनाद्यं यथा साधुः करोति तथाऽऽह
॥८॥
॥८१॥
Jain Education in
For Private & Personel Use Only
9.www.jainelibrary.org