SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ निमित्तदोषः तत्र दृष्टान्तश्च। 2 साधुच लोके गहाँ प्राप । सूत्रं सुगमम् ॥ ४३३-४३४ ॥ अथ निमित्तद्वारमाहनियमा तिकालविसएऽवि निमित्ते छबिहे भवे दोसा। सज्जंतु वहमाणे आउभए तत्थिमं नायं ॥४३५॥ त्रिकालविषये लाभालामसुखदुःखजीवितमरणरूपे षड्विधेऽपि निमित्त दोषा भवन्ति, ते च केऽप्यात्मघातिनः, केऽप्युभयघातिन इति वर्तमाने निमित्ते सद्यः-तत्कालं परिविघातकारिणि, इदं ज्ञातं-दृष्टान्तः ॥ ४३५ ।। तदेवाहआकपिया निमित्तेण भोइणी भोइए चिरगयंमि । पुत्वभणिए कहं ते आगउ? रुट्टो य वडवाए॥४३६ (१०३०) कोऽपि ग्रामनायको निजमायाँ गृहे मुक्त्वा ग्रामान्तरे जगाम, सा च केनापि साधुना निमित्तेनाऽऽवर्जिता, तद् भर्ता च विमृष्टं यथा प्रच्छन्नवृत्याऽहं भार्या चेष्टितं विलोकयिष्ये, तया च साधोः सकाशाचदागर्म जात्वा परिजन: सर्वोऽपि तत्सन्मुखं प्रेषितो, दृष्टश्च साधुः, तत्र पृष्टा भार्या-कथं समागमनं त्वया ज्ञातमिति, साऽऽह-साधुर्निमित्तात् , ततस्तेन मणितमस्ति कोऽप्यन्योऽपि प्रत्ययः, साऽवक-यत् युष्माभिः सह पूर्व जल्पितं चेष्टितं यो वा स्वप्नो मया दृष्टो यश्च मम गुह्ये तिलकस्तत् सर्वमनेन सत्यमेवोक्तं, ततः स ईर्षया साधुमपृच्छत् , कथय भो साधो ! किमस्या वडवाया गर्भेऽ. स्तीति, साधुराह-पञ्चपुण्ड्रः किशोर इति, सोऽचिन्तयत्-यदीदं सत्यं भविष्यति तर्हि मद् भार्यामपतिलकादिकथनमपि सत्यमितरथा विरुद्धकर्मसमाचरीति विनिपातः, तत एवं विचिन्त्य वडवाया गर्भः पाटितः, पतितः पञ्चपुण्ड्र: किशोर इति, तद्दृष्ट्वा सञ्जातकोपोपशमः साधुमवादी , यदीदं न भवेत्तदा त्वमपि न भवेरिति । सूत्रं सुगमम् ॥ ४३६ ॥ Jain Education For Private & Personel Use Only www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy