________________
जातिकुलगणाजीवनस्वरूपम् ।
होमायवितहकरणे नजड जह सोत्तियस्स पुत्तोत्ति।वसिओ वेस गुरुकुले आयरियगुणे व सएड॥४३९ ___ कोऽपि ब्रामणगृहे साधुः प्रविष्टो द्विजपुत्रं होमादि कुर्वाणं दृष्ट्वाऽऽह-होमादिक्रियाणामवितथकरणेन एष ज्ञायते यथा श्रोत्रियस्य पुत्र इति, यदि वा एष गुरुकुले उषित इति ज्ञायते, अथवा सूचयति तव पुत्रोऽयमात्मन आचार्यगुणान् , ततो नियमादाचार्यो भविष्यतीति । तत एवमुक्त ब्रह्मक्रियापण्डितत्वादयं ब्राह्मण इति ज्ञाते स्वजातिपक्षपातश्चेदाधाकर्मादिदोषः प्रद्वेषश्चेद्वधादिर्वा, एतत् सूचया स्वजातिप्रकटनं, असूचा( चया) प्रकटनं यथाऽहं ब्राह्मण इति, एवं कुलादिष्वपि भावनीयम् ॥ ४३९ ।। एतदेवाहसम्ममसम्मा किरिया अणेण ऊणाऽहिया व विवरीया। समिहामंताहुइठाणजागकाले य घोसाई ४४० ___अथ विप्रगृहे एवं वक्ति अनेन त्वत्पुत्रेण सम्यगसम्यक् वा होमादिका क्रिया कृता, तत्रासम्यक् त्रिधा-ऊना अधिका विपरीता च, सम्यक समिधादीनाश्रित्य, तत्र समिधो-ऽश्वत्थादिवृक्षाणां शाखाखण्डानि, मन्त्राः, आहुतिरनौ घृतादेः, स्थानमुत्कुटादि, 'यागो'-ऽश्वमेधादिः, काला-प्रभातादिः, घोषाव उदात्तादयः, आदिशब्दात् इस्वदीर्घादिवर्णपरिग्रहः, इत्युक्ते पूर्ववदोषाः ॥ ४४० ॥ अथ कुलायुपजीवनमाहउग्गाइकुलेसुवि एमेव गणे मंडलप्पवेसाई । देउलदरिसणभासाउवणयणे दंडमाईया ॥ ४४१ ॥
जातिवदुग्रादिकुलेष्वपि ज्ञेयं, तथा गणे मण्डलप्रवेशादि प्रविष्टस्यैकस्य मल्लस्य यल्लम्यं भूखण्डं तन्मण्डलं, तत्र प्रव
Jain Educationala
For Private & Personel Use Only
www.jainelibrary.org