________________
क्षमा
रत्नीयाबचूर्युपेता
श्री
पिण्डनिर्युक्तिः
॥ ७२ ॥
Jain Education Inte
यद् गजभक्तं स राज्ञः पिण्डस्ततो राज्ञाऽननुज्ञातस्य ग्रहणे ग्रहणाकर्षणादयो दोषा भवन्ति, अन्तरायिकं च कर्म अदत्तादानं, तथा कुडुम्बस्य - मिण्ठस्य सत्के पिण्डे मिण्ठेन दीयमाने यदि सदा साधुर्गजस्य पश्यतस्तद् गृह्णाति, तदा मदीय कवलमध्यादनेन पिण्डो गृहीत इति कदापि रुष्टो गजस्तं भिक्षुमेव मार्गे प्राप्य मारयेत्, वसतिमुपाश्रयं वा स्फोटयेत् ॥ ३८७ ॥ अथाध्यवपूरकद्वारमाह
अज्झोयरओ तिविहो जावंति य सघरमीसपासंडे । मूलंमि य पूवकये ओयरई तिण्ह अट्ठाए ॥ ३८८
अभ्यवपूरकस्त्रिविधः, जावंति य इत्यत्र स्वगृहमिश्रशब्दयोः सम्बन्धनात् स्वगृहयावदर्शिक मिश्रा, सघरमीसत्ति, अत्र साधुशब्दोऽध्यायिते स्वगृहसाधुमिश्रः, पासंडे इति, अत्रापि स्वगृहमिश्रशब्दसम्वन्धः स्वगृहपाखण्डिमिश्र इति, मूलेआरम्भ पूर्व कृते पश्चात्रयाणामर्थाय अवतारयति -गृहस्था अधिकतरान् तन्दुलान् प्रक्षिपति, अधिकमवपूरयतीत्यध्यवपूरक इत्यन्वर्थः ।। ३८८ ।। अथाध्यवपूरकमिश्रजातयोर्भेदं दर्शयति
तंडुलजलआयाणे पुप्फफले सागवेसणे लोणे । परिमाणे नाणत्तं अज्झोयरमीसजाए य ॥ ३८९ ॥
अध्य व पूरक मिश्रजातयोर्नानात्वं भेदस्तन्दुलपुष्पफलशाकवेसनलवणानामादाने - आदानकाले यत् परिमाणं तेन द्रष्टव्यम्, तथाहि मिश्रजाते पूर्वमेव स्थाल्यां प्रभूतं जलमारोप्यते, अधिकतराश्च तन्दुलाः कण्डनादिभिरुपक्रम्यन्ते इत्थं फलादिकमपि भाव्यम्, अध्यवपूरके तु पूर्वं स्तोकमेव तन्दुलादिर्गृह्यते, पश्चादधिकप्रक्षेप इति भावः ॥ ३८९ ॥ अध्यव
For Private & Personal Use Only
अध्यत्र
पूरक:, तन्मिथजा
तयोर्भेदश्च ।
॥ ७२ ॥
www.jainelibrary.org