________________
क्षमारत्नीयावचूर्युपेता
श्रीपिण्डनियुक्तिः
स्तनाच्छेधेऽपवादोऽनिसृष्टद्वारश्च ।
॥७०॥
संस्तरे-अनिर्वाहे ते स्तेनाः स्वग्रामाभिमुखं प्रत्यागच्छन्तो वा शब्दादन्यत्र गच्छन्तो वा यदि तेषां भक्तादि बलादाच्छिद्य ददति, तर्हि न कल्पते, न ग्राह्य, यतो माऽभूत्रिच्छोभा-निष्काशनं सार्थात , एकानेकसाधूनां भक्तादिव्यवच्छेदः, यदि पुनः सार्थिकैः स्तेना अपि गृहीष्यन्ति, ततो भवद्भिर्गृह्यतामिति मयेनानुज्ञाताः साधवस्तदा तद् गृहीत्वा भक्तादि तत्तेभ्य एव पश्चाद्ददति, यथा तदानीं चौरप्रतिभयादस्माभिर्गृहीतं, अथ ते गता यूयमात्मीयं भक्तादि गृहीथेति, एवमुक्तेऽपि यद्यनु जानन्ते युष्मभ्यं दत्तमिति तर्हि भुञ्जते, क्वचिद्वितीयगाथायां "घय सत्तुय दिढतो" इति दृश्यते, तत्र च सार्थिकाः स्तेनेबलाद्दाप्यमाना यदि एवं युवते, यथाऽस्माकं घृतसक्तुदृष्टान्तः, यथा-घृतं सक्तुमध्ये क्षिप्तमपि संयोगाय एवमस्माकं चौरर्गृहीतव्यम्, ततो यदि चौग अपि युष्मभ्यं दापयन्ति, ततो महानस्माकं समाधिरिति अनुज्ञाताः साधवः, शेष प्रागिव ॥ ३७५-३७६ ॥ अथानिसृष्टद्वारमाहअणिसिटुं पडिकुटुं अणुनायं कप्पए सुविहियाणं । लड्डग चोल्लगजंते संखडि खीरावणाईसु ॥३७७॥ ____ अनिसृष्टं यदननुज्ञातं तत् प्रतिक्रुष्टं, एतेनान्वर्थोऽपि भाव(वि)त एव, अनुज्ञातं सुविहितानां कल्पते, तच्चानिसृष्टमनेकधा, मोदके चुल्ल्के भोजने यन्त्र इति-कोल्हुकादिषाणके सङ्घडयां क्षीरे आपणादौ च, अयं भावः-इह सामान्येनानिसृष्टं द्विधासाधारणानिसृष्टं भोजनानिसृष्टं च, तत्र चोल्लकशब्देन भोजनानिसृष्टमुक्तं, शेषभेदैः साधारणानिसृष्टमिति ॥ ३७७ ॥ तत्र | मोदकविषयसाधारणानिसृष्टोदाहरणं गाथाचतुष्टयेनाह
॥७०॥
Jnin Education in
For Private Personel Use Only
www.jainelibrary.org