________________
Jain Education
अचित्तमंतरायं तेनाहड एगऽणेगवोच्छेओ । निच्छुभणाइदोसा तस्स अलंभे य जं पावे ॥ ३७३ ॥ यत्सत्कं गृह्यते, तस्याप्रीतिर्जायत अन्तरायं वा तथाभूतं साधूनां गृह्णतां स्तेनाहृतं भवति, तत् स्वामिनाऽननुज्ञातत्वात्, तद्दोषादेकस्य तस्यैव साधोर्यद्वाऽन्येषां साधूनामनेकेषां तद्गृहे भक्तादिव्यवच्छेदः स्यात्, यद्वा ते रुष्टाः सन्तो यः पूर्वमुपाश्रयो दत्तस्तस्मान्निष् कासयन्ति, तथा तस्योपाश्रयस्यालामे यत् किमपि कष्टं प्राप्नुवन्ति तदप्याच्छेद्यादाननिमित्तमिति दोषः || ३७३ ।। अथ स्तेनाछिद्यमाह
तेणो व संजयट्ठा कलुणाणं अप्पणो व अट्ठाए । वोच्छेय पओसं वा न कप्पई कप्पणुन्नायं ॥ ३७४ ॥
स्तेना अपि केचित् संयतान् प्रति भद्रका भवन्ति, संयता अपि दरिद्रसार्थेन सह व्रजन्ति, ततस्तान् भिक्षावेलायां भिक्षामप्राप्नुवतो दृष्ट्वा संयतानामर्थाय यद्वा तस्यात्मनोऽर्थाय तेषां करुणानां कृपास्थानानां दरिद्रसार्थमनुष्याणां सकाशादाच्छिद्य यद्ददाति स्तेनः तत् स्तेनाच्छेद्यं ज्ञेयम्, तच्च साधूनां न कल्पते, यतस्तग्रहणे पूर्वोक्तन्यायेनै काने कसाधूनां भक्तादिव्यवच्छेदः प्रद्वेषश्च जायते, यदि पुनस्ते सार्थिका वक्ष्यमाणप्रकारेणानुजानन्ते तर्हि कल्पते ॥ ३७४ ॥ एतदेव गाथाद्वयेनाह - संजयभद्दा तेणा आयंती वा असंथरे जइणं । जइ देति न घेतव्वं निच्छुभवोच्छेउ मा होजा ॥ ३७५ ॥ घसत्यदितो समणुन्नाया व घेत्तुणं पच्छा। देति तयं तेंसिं चिय समणुन्नाया व भुंजंति ॥ ३७६ ॥ इह स्तेना अपि संयतभद्रका भवन्ति साधवश्च दरिद्रसार्थेन सह कदापि यान्ति, ततस्तेषां साधूनां भिक्षावेलायाम
For Private & Personal Use Only
स्तेनाच्छेयनिरोधः ।
www.jainelibrary.org