SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ क्षमारत्नीयापर्युपेता श्री का पिण्डनियुक्ति इह प्रभुणा बलाद् दुग्धादिकमाच्छिद्यमाने कोऽपि गोप एवं युवाणः सम्भाव्यते, यथा-अनिविष्ट:-अनुपार्जितं स्वाम्या. किमपि न लभ्यते, ततो मया दुग्धमिदं शरीरायासेनार्जितं, ततस्त्वं कथमत्र प्रभवसि ?, न हि दास्यप्यास्तामुत्तमरुयादिक- INद्याच्छेद्यः। | मिति भक्ताहते-भरणपोषणं विना भुज्यते-भोक्तुं लभ्यते, ततो मदीयं भोजनमिदमिति न प्रभुत्वावकाशः, एवमुक्तो द्वयोरेकतरस्य वा प्रद्वेषः, प्रद्वेषे च यत् करिष्यति धनहरणमारणादिकं तदोषतया भाव्यम् , यच्चान्तरायं गोपालस्य तत् कुटुम्बस्य वा तदपि दोषरूपमिति । ३७० ॥ अथ स्वामिविषयमाच्छेद्यमाहसामीचारभडा वा संजय दट्ठण तेसि अट्ठाए । कलुणाणं अच्छेजं साहूण न कप्पए घेत्तुं ॥३७१॥ स्वगृहमात्रनायकः प्रभुः, ग्रामादिनायकः स्वामी, तथा चोक्तम्-" होइ पभूघरमाणे सामी पुण गामसामिओ भणिओ। तेणो पसिद्धगोच्चिय एयच्छिन्नं न गेहिजा ॥१॥" चारभटाः स्वामिभटा वा संयतान् दृष्ट्वा तेषां संयतानामर्थाय करुणानां-कृपास्थानानां दरिद्रकौटुम्बिकादीनां सम्बन्ध्याच्छिद्य यद्ददाति तत् साधूनां गृहीतुं न कल्पते ॥ ३७१ ।। एतदेव व्यक्तमाह आहारोवहिमाई जइअट्ठाए उ कोइ अच्छिदे । संखडि असंखडीए तं गिण्हते इमे दोसा ॥३७२॥ __यदि कोऽपि स्वामी भटो वा यतीनामर्थाय परकीयमाहारोपध्यादिकं संखडया-कलहेन असङ्खडया-कलहामावेनाच्छिद्य | | यतिभ्यो ददाति तद् गृह्णत इमे दोषाः वक्ष्यमाणाः ॥ ३७२ ॥ तानेवाह Jain Education Inten For Private & Personel Use Only aw.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy