________________
आच्छेद्ये
गोप दृष्टान्तः।
गोवपओ अच्छेत्तुं दिन्नंतु जइस्स मइदिणे पहुणा । पयभाणूणं दटुं खिंसइ भोई रुवे चेडा ॥ ३६८ ॥ | पडियरणपओसेणं भावंनाउंजइस्स आलावो। तन्निबंधा गहियं हंदि स मुक्कोसि मा बीयं ॥ ३६९ ॥
(१०२६) वसंतपुरे जिनदासरुक्मिण्यो दम्पती, वत्सराजो गोपालः, स चाष्टमे दिने सर्वाषामपि गोमहिषीणां दुग्धमादत्ते, इदमेव भाटकमिति, अन्यदा साधुर्भिक्षार्थ तत्रागमत् , तस्मिन् दिने गोपस्य सर्वदुग्धादानवारकस्तेन सर्वगोमहिषीणां दुग्धेन परिभृता, जिनदासेन भक्तं प्रतिलाभ्य साधवे पायसं बलादाछिद्य गोपादत्तं, ततस्तद्भाजनं कतिपयपयसोनं गृहे नीतवान् , भार्या च तद् दृष्ट्वा ज्ञातवृत्तान्ता खिसति, चेटरूपाणि दुग्धं स्तोकमालोक्य रोदितुं प्रवृत्तानि, तथा वसतौ (च सति) गोप: सकोपः साध्वनाथं चचाल, दृष्टः कापि साधुः, प्रधावितो लकुटमुत्पाठ्य गोपः, साधुस्तं सकोपमायातं दृष्ट्वा नूनमस्य दुग्धं बलादाच्छिद्य जिनदासेन दत्तमिति चिन्तयित्वा विशेषात् प्रसनीभ्य तत् सन्मुखं चचाल मणितं च, भो गृहाण स्वदीयं दुग्धमित्युक्त सोऽप्युपशान्तो निजभावं प्रकटयन् चोक्तवान् , मुक्त इदानीं, याहि दुग्धं लात्वा, परं भूयोऽप्येवमाच्छे न गृहीतव्यं, गोपसाधू स्वस्थानं गतौ । सूत्रं सुगमम् , नवरं पयभाणूणं-पयोभाजनमूनं दृष्ट्वा भोई इति-भोग्या-भार्या रोविति-रुदन्ति, हन्दीत्यामन्त्रणे तन्निर्बन्धात, स्वदीयजिनदासाख्यप्रभुनिबन्धात गृहीतं, ततः स प्राह-मुक्तोऽसि सम्प्रति मा द्वितीयं वारमेवं गृहीथाः ॥ ३६८-३६९ ॥ अथ गोपविषय एव " अचियत्तसंखडाई" इति व्याख्यानयतिनानिविद्रं लब्भइ दासीविन भुजए रिते भत्ता। दोन्नेगयरपओसं जं काही अंतरायं च ॥३७०॥
Jain Education Inter
For Private & Personal Use Only
M
w.jainelibrary.org