________________
क्षमा
रत्नीयाबचूर्युपेता
भी
पिण्ड
निर्युक्तिः ।
॥ ६८ ॥
Jain Education Int
यद्ददाति तन्मालापहृतं न भवति, तथा पूर्वारूढः साध्वागमनात्, अनुच्चोत्क्षिप्ते साधुपात्रे यद्ददाति तदपि मालापहृतं न स्याच्छेषं तु भवति ।। ३६४ ॥ अथानुच्चोत्क्षिप्तयोः स्वरूपमाह -
तिरियायय उज्जुगएण गिण्हई जं करेण पासंतो । एयमणुच्चुक्खित्तं उच्चुक्खित्तं भवे सेसं ॥३६५ तिर्यग् आयतेन- दीर्घेण ऋजुकेन - सरलेन करेण-हस्तेन पात्रं दृष्ट्या निमालयन् यत् गृह्णाति पात्रे हस्तं प्रक्षिप्य ददाति दाता यत्र, तदित्थं भूतं पात्रमनुच्चोत्क्षिप्तं भवति, शेषं पुनरुच्चोत्क्षिप्तं स्यात् || ३६५ ॥ अथाच्छेद्यमाह - अच्छिपि य तिविहं पभू य सामी य तेणए चेव । अच्छिजं पडिकुटुं समणाण न कप्पए घेत्तुं ॥ ३६६ ॥
लादाच्छिद्य दीयते साधुभ्यस्तदाच्छेद्यमित्यन्वर्थः । आच्छेद्यमपि त्रिविधं प्रभुस्वामिस्तेनविषयत्वात् तदाच्छेद्यं प्रतिकुष्टं - निषिद्धं तीर्थ करादिभिः श्रमणानां गृहीतुं न कल्पते ॥ ३६६ ॥ अथ प्रभुविषयमाह -
गोवालए य भयएऽखरए पुत्ते य धूय सुण्हाए । अचियत्त संखडाई केइ पओसं जहा गोवो ॥ ३६७॥
प्रश्चकर्तृकमा च्छेद्यं, गोपालके भृतके - कर्म्म करे अक्षर के - द्व्यक्षरामिधाने दास इत्यर्थः पुत्रे दुहितायां स्नुषायां भवति, अत्र दोषानाह - अचियत्तं- अप्रीतिः संखड - कलह इत्यादि दोषाः केचित्पुनः प्रद्वेषमपि साधौ गच्छन्ति, यथा गोपः || ३६७ || गोपदृष्टान्तं गाथाद्वयेनाह
For Private & Personal Use Only
आच्छेद्य
मेदाः
दोषाच ।
॥ ६८ ॥
www.jainelibrary.org