________________
Jain Education In
एमेव य उक्कोसे वारणनिस्सेणि गुठिवणीपडणं । गब्भित्थिकुच्छिफोडण पुरओ मरणं कण बोही ॥ ३६२ ( इ० २५ ) जयन्तीपुर्यां सुरदत्तश्रेष्ठी, भार्या वसुन्धरा, अन्यदा गुणचन्द्रर्षिस्तद्गृहे भिक्षायै समेतः, सुरदत्तेन वसुन्धराऽभिहिता - मालादानीयास्मै मोदकान् देहि, सा चान्तर्वत्नी परं पत्युरादेशात् मालाभिमुखं चचालेति, साधुरस्माकं न कल्पते इति तां निवार्य निर्वृत्तस्तदा कोऽपि कापिलस्तत्राजगाम भिक्षार्थं, सुरदत्तेन पृष्टः- संयतेन मालादानीयमाना भिक्षा कथं न गृहीता ?, तेनापि मात्सर्यादसम्बद्धं किमप्युक्तं, सुरदत्तो वसुन्धरया तस्मायपि मोदकान् दापितवान् साच निःश्रेणिमारोहन्ती पादल्हसनतो भूमौ पपात, अधश्च व्रीहिदलनयन्त्रेणोदरद्विधाकरणाद् गर्भः पृथक् जातः, तया पीडया माता गर्भश्च द्वयमपि मृतम्, उत्थितः कापिलस्यावर्णवादोऽन्यथा स एव साधुस्तद्गृहे भिक्षार्थमागतो यक्षदिनवत्पृष्ठे यथावस्थिते कथिते प्रव्रज्या । सूत्रं सुगमम् ।। ३६२ ।। अथ मालापहृतं मङ्गयन्तरेणाह
उम तिरियंपिय अहवा मालोहडं भवे तिविहं । उड्डे य महोयरणं भणियं कुंभाइसू उभयं ॥ ३६३ ॥
अथवा मालापहृतं त्रिविधं तथाहि - ऊध्वं अवस्तिर्यक् च, ऊर्ध्वं सिक्ककादिगतम्, अधो भूमिगृहादाववतरणं, कुम्भादिषु - घटादिषु बृहद्भाजनेषूमयं भणितम्, अधोमुखकरणादू पात्पातनात् ॥ ३६३ ॥ अथापवादमाह - दद्दर सिल सोवाणे पुव्वारूढे अणुच्चमुक्खित्ते । मालोहडं न होई सेसं मालोहडं होइ ॥ ३६४ ॥ दर्दरका - निरन्तरकाष्ठफलकमयो निःश्रेणिविशेषः, शिला प्रतीता, सोपानानि इष्टकामयान्यवतरणानि, एतान्यारुह्य
For Private & Personal Use Only
मालापहृते द्वितीय
दृष्टान्तः ।
भङ्गानि च।
www.jainelibrary.org