SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ क्षमा रत्नीयावर्युपेता मालापहते भिक्षु| दृष्टान्तः । श्री पिण्डनियुक्तिः ॥६७॥ सादरं वसुमती बभणे-देहि साधवे अमुकान् मोदकानिति, चेत् (ते च ) सिक्ककोपरि घटेऽवतिष्ठन्ते, सा तान्यदातुं चचाल, साधुश्च सदोषमिति निवृत्तः, ततस्तदेव कोऽपि भिक्षुरागतः, पृष्टो यक्षदिन्नेन-किं संयतेन सिक्ककादानीयमाना मिक्षा नाददे, तेन प्रवचनमात्सर्यादित्यूवे-अदत्तदाना अमी वराका इति, श्रेष्ठिना तानेव मोदकान् तस्मायपि दापिता वसुमती, सा च यावत्तानादातुं गता तावत्तत्र घटे मोदकगन्धेन भुजङ्गमः प्रविष्टो अव तिष्ठते, वसुमती मोदकघटे यावत् करं क्षिपति तावदहिना दष्टा, वैद्यौपधैरायुरत्रुटीतमिति निरुग् बभूव । अन्यदा च स एव धर्मरुचिस्तत्रागतः, यक्षदिन्नेनोपलक्ष्य | पृष्टम्-यदि दयाप्रधानो धर्मस्तर्हि सर्पदर्शने कथमुपेक्षा तवेति ? साधुराह-न मया दृष्टोऽहिः, किन्तु भगवदादेशोऽयंमालापहृतभिक्षा त्याज्येति, तेनाहं प्रतिनिवृतः, तच्छ्रुत्वा यक्षदिनेन साधुपार्श्वे धर्म श्रवणेन वैराग्याद्भार्यया सह दीक्षा जगृहे, सूत्रं सुगमम् ।। ३६० ॥ अथ जघन्य एवान्यानपि दोषानाह आसंदिपीढमंचकजंतोडूखल पडंत उभयवहे। वोच्छेय पोसाई उड्डाहमनाणिवाओ य ॥ ३६१ ॥ ___आसन्दी-मश्चिका पीठं-गोमयाद्यासनं, मश्चकः प्रतीतः, यन्त्र-व्रीह्यादिदलनोपकरणं, उदूखलः प्रतीतः, एतेष्वारुह्य | दात्री भिक्षां ददती, यदि मश्वकादिल्हसनतो निपतति, तदोभयवधो-दाच्याः पृथिवीकायादीनां च (विनाशः), तया एतस्मै भिक्षामहं ददती प्रागपि पतिता ततोऽनेकोऽप्यस्मै दास्यतीति तद्गृहे तद्रव्यान्यद्रव्यव्यवच्छेदः स्यात्, प्रद्वेषः साधौ, तथा प्रवचनोड्डाहः, अज्ञानवादश्च यथैते एवंविधानपि न जानन्तीत्येवं मूर्खताप्रवादः ॥ ३६१ ।। अथोत्कृष्टस्य दोषानाह Jain Education Intel For Private & Personel Use Only kww.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy