________________
Jain Education In
बत्तीसा सामन्ने ते कहि हाउं गयत्ति इअ वृत्ते । परसतिएण पुन्नं न तरसि काउंति पच्चाह ॥ ३७८ ॥ अविय हु बत्तीसाए दिन्नेहि तवेगमोयगो न भवे । अप्पवयं बहुआयं जइ जाणसि देहि तो मज्झं ॥३७९ लाभिय नें तो पुट्ठो किं लद्धं नत्थि पेच्छिमो दाए । इयरोऽवेि आह नाहं देमित्ति सहोढ चोरत्ति ॥ ३८० गिण्हण कड्डण ववहार पच्छकडुड्डाह पुच्छ निबिसए । अपहुंमि भवे दोसा पहुंमि दिन्ने तओ गहणं ॥
(दृ० २७) रत्नपुरे माणिभद्रमुख्या द्वात्रिंशद्वयस्याः साधारणान् मोदकान् कारयित्वोद्यापनिकार्थं गताः, एको मोदकरक्षार्थं मुक्तोऽन्ये त्वेकत्रिंशन्नद्यां स्नातुं गताः, अत्रान्तरे कोऽपि लोलुपसाधुस्तत्रागतो, मोदका याचिताः, आरक्षकेनोक्तं नमस्यैते, किन्तु परेषां एकत्रिंशजनानां ततः कथं ददामि, साधुराह - ते कुत्र गताः १, नद्यां गताः नद्यां स्नातुं गता इति | तेनोक्ते साधु-परसत्केन मोदकसमूहेन त्वं पुण्यं कर्त्तुं न शक्नोषि १, पच्चाहति तं प्रत्याह साधुरिति, अपि च द्वात्रिंशतमपि मोदकान् यदि मे प्रयच्छसि तथापि तव मागे एक एव मोदको याति, तत एवमलपव्ययं बह्वायें दानं यदि जानासि तर्हि मह्यं सर्वानपि मोदकान् देहि, तत एवमुक्ते दत्ताः सर्वेऽपि मोदकाः, भृतं साधुभाजनं, साधुः पश्चान्निवृत्तः, अत्रान्तरे माणि भद्रादयः सन्मुखमागच्छन्ति, पृष्टश्च साधुस्तैः, किमत्र त्वया लब्धं १, साधुना च मोदकवनिका इति ज्ञात्वा, नेत्युक्ते, | तैर्भाक्रान्तं साधुमालोक्योक्तम् - दर्शय निजभाजनं यथा प्रेक्षामहे, साधुश्च न दर्शयति, बलादालोकिते दृष्टा मोदकाः,
For Private & Personal Use Only
अनिसृष्टे दृष्टान्तः ।
www.jainelibrary.org